न्यायमकरन्दे शुकृगुणः स्वरूपेणावभासते, तदनयेोर्गुणगुणिनोः संस र्गयोग्ययोरसंसगाहसारुप्यात्पीतजातारूपशङ्खप्रत्यया विशेषेणाभेदव्यवहारः । भेदाग्रहप्रसाञ्जिताभेद्व्यवहारबाधनाच नेदमिति विभेदकप्रत्ययस्य वाधकताप्युपपन्ना, इति । न च द्रव्याग्रहणे गुणस्य, गुणाऽग्रहणे द्रव्यस्याऽग्रहणमिति साम्प्रत, गन्धस्य केवलस्य * प्रदोषे शुकृताऽप्रहपेपि वलाकाया अवसीयमानत्वादिति भावः । अस्तु तथापि प्रस्तुते किमायातमित्यत आह “तद्नयोर्” इतेि । नेदमितिवाधकस्य प्रसक्तप्रतिषेश्रयरूपतया तदन्यथानुपपत्त्या पुरोवर्त्तिविषयरजतज्ञानसिद्धिरित्यत आह “भेदाग्रह' इति ननु सर्वे प्रत्ययानां यथार्थत्वे भ्रान्तिज्ञानमिदं सम्यग् ज्ञानमिदमिति लोकसिद्धो व्यवहारः कथमित्याशङ्क्य यथार्थत्वेपि ज्ञानानां संवा दिाविसंवादिव्यवहारजनकत्वेन सम्यङ्गमिथ्याविभागसिद्धिरित्याह
+ कस्तूरिकारिद्रव्याग्रहण केवलस्य गन्धस्यानुभूयमानत्वात्, प्रदेष शैकिल्पगुणा अहणेपि बलाकाया अनुभूयमानत्वात्पृथक्त्वेनापि कृविद् द्रव्थगुणयोर्महण सभवती