पृष्ठम्:न्यायमकरन्दः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादोत्थापनम् । मू०-तदभ्युपगन्तव्यमकामैरप्यगृहीतविवेकतापन्नस न्निहितरूप्यग्रहणसारूप्यग्रहणस्मरणप्रसाञ्जित एवार्य रजतार्थिनः पुरोवर्तिनेि व्यवहार इति । कचित्पुनग्रहणे एवागृहीतान्योन्यभेदे अयथा व्यवहारमापाद्यतो यथा पीतः शङ्ख इति । तत्र हि विनिर्गच्छन्नयनरश्मिवर्तिनः पित्तधातो पीतिमा द्रव्यरहितो गृह्यते शङ्खेोपि नयनदोषवशादनाकलित

  • तदभ्युपगन्तव्यम् ?” इति, ग्रहणस्मरणप्रसञ्जित एवायं

पुरोवर्तिनि व्यवहार इत्यन्वयः । ग्रहणस्मरणे विशिनष्टि

  • अगृहीत ?” इति, न गृहीतो विवेको ययोस्ते तथाभूते ,

तयोर्भावोऽगृहीतविवेकता तयाऽपञ्=प्राप्त सन्निहितरूप्यग्रहणसा रूप्यं याभ्यां ते ग्रहणस्मरणे । यथेदंरजतमिति सम्यग्ज्ञाने पीदमंश रजतांशयोः स्फुराणे भेदस्याभावादेव तदग्रहण* विभ्रमेििप तदु भयस्फुरणेपि विद्यमानविवेकस्यापि दोषादग्रहणमिति सन्निहितरू शङक्याविविक्तज्ञानद्वयमेब सर्वत्र प्रयोजकमित्यभिप्रायेण परेि हरन्नुदाहरणमाह “कचिद्' इति, तदेवोपपाद्याति “तत्र हि

  • ‘तथा विभूमऽपि'इत्येव पठनीय प्राक्तनयथाशब्दसाङ्गत्याय।