न्यायमकरन्द मू०–अपिच इदं स्मरणमनाकलितरजतस्यानु पद्यमानत्वाद् यदित्थं तत्तथा यथेोभयवाद्यविवादास्यदं रजतस्मरणं, नचेदमस्मरणं तदंशवैधुय्र्यात्संप्रतिपन्नग्रह णवदिति साम्प्रतं, नेह भूतले कुम्भ इत्यनुलिखितदं शास्यापि स्मरणस्योपगमाद्, भूयसां च पदात्पदार्थस्मर णानामनुलिखितदंशानामेवोपलम्भात. टी०–“ अपि च' इति, “नेह' इति, धटो नास्तीत्यभाः वज्ञाने प्रतियोगिस्मरण निमित्तं तेन प्रतियोगी घटस्तदशविधुरे णोपस्थाप्यत इति तत्रानैकान्तिको हेतुरित्यर्थः । ननु नेह भूतले कुम्भ इत्यत्र प्रतियोगिग्रहणमेवाभावशाननिमित्तं, यदि पुनः स्म रणमेवनिमित्तं तदा स घटोऽत्रनास्तीति तदंशपरामशौ भवत्येव तेन कुतस्तत्रालैकान्तिकतेत्याशङ्कय सम्प्रतिपन्नमुदाहरणमाह * भूयसाँ च' इति, सम्बन्धग्रहणकाले गृहीतमर्थ शब्द. स्मारयतीतेि वा च्यम् अनधिगतथै सम्बन्धग्रहणाभावेन तदप्रत्यायकत्वाद्, यदाहुः
- पद्मभ्यधिकाभावात्स्मारकान्न विशिष्यत ? इति, तयाच
गामानयेति वाक्येषु पदात्पदार्थस्मृतिरेव सा च तदंशविधुरोति तत्रा व्यवहारस्य ग्रहणस्मरणाविवेकनिमित्तत्वमुक्तमुपसंहरति
- तदशविधुरण =तत्तांशाहीनेन घटपस्न ।