मू०-ज्ञाने शुक्तिकावभासत इतिकथमसावस्यालम्बनं,
तद्भासनाभ्युपगमे वा कथंनानुभवविरोधः, नच समीची
नसंवेदनसाधनादक्षसन्निकर्षदन्यथावभासो युक्तः, क
लमां बीजादावपि कदल्यङ्करोत्पादप्रसङ्गाद्, दोषसह
कारिसमवधानाद्दोष इति चेन्न दोषाणां काय्य
पजननसामथ्र्यविघातमात्रहेतुत्वाद्, न खलु शालिबीजं
तैलकलुषितमपि सम्पादयति यवाङ्कुरं किन्तु न स
म्पाद्यति शाल्यङ्कुरम्
किञ्च विषयव्यभिचारे विज्ञानानां सर्वत्रानाश्वा
सप्रसङ्गः ।
टी०.*तद्भासन'इति, इन्द्रियसन्निकर्षस्य समीचीनज्ञानजनकत्वा
दपि नायथार्थज्ञानजनकत्वमित्याह *नचवसमीचीन' इति, यद्यस्य
जनकत्वेन प्रसिद्ध तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज
कदल्यङ्करस्य जनकं, विमतमयथार्थज्ञानस्यन जनकं यथार्थज्ञानजन
कत्वाद् यद्यस्यजनकं तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज
कदल्यङ्करस्य नचेदं न तथा तस्मान्नायथार्थज्ञानस्य जनकमिति
सामान्यतः प्रयोगोऽनुसन्धेयः । ननु निर्तुष्टस्य तथात्वनियमपि दो
षसहितस्य भवेदन्यथाभाव इति शङ्कते *दोष' इति, दुष्ट
+ कालम् = एतन्नामख्यातशालिधान्यविशेषः ।
तैलकलुषित शालिचीज थथा विपरीत काय्यै यवाङ्कुर न सपादयति तथा
स्वकीय काय्यै शाल्यङ्कुरमपि न सपात्यतीत्युक्तया स्वारसिककाय्र्यप्रसवशक्तिप्रति
- अन्यथाभाव = विपरीतकाय्यैजननयोग्यत्व, यथा दावद्ग्धवत्रवीजानां विप
रीत रम्भांकाण्डारम्भकस्व दृष्ट यथा वा शरात्र कांस्यपात्रेषितधृतस्य च मरण कारणत्व दृष्ट तथा दोषदूषिताक्षात्रापि मिथ्यार्थावभासजननयोग्यत्वमिति तत्त्वम् ।