पृष्ठम्:न्यायमकरन्दः.djvu/६३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अख्यातिवादोत्थापनम् । मू०–साधारणाकारावग्रहस्य चव मिथः स्वरूपतो वि षयतश्च विभेदानवभासनात साविधकलधौतबोधसारू प्येण ‘इदमितेि-रजतमिति च' भिन्ने अपि ग्रहणस्मरणे अभेद्व्यवहारं समानाधिकरणव्यपदेशं च प्रवर्तयतः । स्मरणरूपता रजतवेदनस्य , चव पारशषप्रास्तद्वरा तथा हि--न तावद् रजतनयनसंप्रयेोगसमुपजातमे तदिति साम्प्रतम्, अतिविप्रकृष्टविषयसन्निकर्षासम्भवा दक्षाणां, नच दोषदूषिताक्षसन्निकर्षः शुक्तिशकल मेव कलधौततया बोधयतीति साम्प्रतं. न खलु रजत निर्भासः शुक्तिकालम्बनो युक्तः, प्रतीतिविरोधाद्, यद्धि यस्मिन् विज्ञानेऽवभासते तत्तदालम्बनं, नव रजतवि टी०-विधा=प्रकार:, तया सह वर्तते यः कलधौतबोधः स तथा, सम्पूर्णसमीचीनरजतप्रत्ययस्सारूप्येणेति यावद् । अथ वा संविधशब्दः पुरोवर्तिबाची “ आसन्न सविधं पार्श्वम् ?’ इत्यभिधानातू, पुरोवर्तिरजतबोध इति यावदू । नन्वैन्द्रियकत्वाद् रजतविज्ञानस्य न स्मरणरूपत्वमित्याशङ्क्य परिशेषेण साधयति

  • स्मरणरूपता च' इति, नन्विान्द्रियेण संयुक्तमेव शुक्तिशकलं

तच्च दोषाढू रजतया भासते तेन रजतासन्निकर्षों न दोषाये त्याशङ्कय तथा सत्यन्याकारज्ञानस्यान्यालम्बनत्व चव वक्ष्यमाणानु भवविरोधादिदोषप्रसङ्गात्रैवमिति परिहरति * नच दोष ?’ इति, प्रतीतिविरोध दर्शयितुमालम्बनलक्षणमाह “यांद्वे ” इति, ननुसापि भासतकथं नचेति तत्राह