पृष्ठम्:न्यायमकरन्दः.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-ज्ञाने शुक्तिकावभासत इतिकथमसावस्यालम्बनं, तद्भासनाभ्युपगमे वा कथंनानुभवविरोधः, नच समीची नसंवेदनसाधनादक्षसन्निकर्षदन्यथावभासो युक्तः, क लमां बीजादावपि कदल्यङ्करोत्पादप्रसङ्गाद्, दोषसह कारिसमवधानाद्दोष इति चेन्न दोषाणां काय्य पजननसामथ्र्यविघातमात्रहेतुत्वाद्, न खलु शालिबीजं तैलकलुषितमपि सम्पादयति यवाङ्कुरं किन्तु न स म्पाद्यति शाल्यङ्कुरम् किञ्च विषयव्यभिचारे विज्ञानानां सर्वत्रानाश्वा सप्रसङ्गः । टी०.*तद्भासन'इति, इन्द्रियसन्निकर्षस्य समीचीनज्ञानजनकत्वा दपि नायथार्थज्ञानजनकत्वमित्याह *नचवसमीचीन' इति, यद्यस्य जनकत्वेन प्रसिद्ध तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज कदल्यङ्करस्य जनकं, विमतमयथार्थज्ञानस्यन जनकं यथार्थज्ञानजन कत्वाद् यद्यस्यजनकं तत्ततोऽन्यस्य जनकं न भवति यथा कलमबीज कदल्यङ्करस्य नचेदं न तथा तस्मान्नायथार्थज्ञानस्य जनकमिति सामान्यतः प्रयोगोऽनुसन्धेयः । ननु निर्तुष्टस्य तथात्वनियमपि दो षसहितस्य भवेदन्यथाभाव इति शङ्कते *दोष' इति, दुष्ट + कालम् = एतन्नामख्यातशालिधान्यविशेषः । तैलकलुषित शालिचीज थथा विपरीत काय्यै यवाङ्कुर न सपादयति तथा स्वकीय काय्यै शाल्यङ्कुरमपि न सपात्यतीत्युक्तया स्वारसिककाय्र्यप्रसवशक्तिप्रति

  1. अन्यथाभाव = विपरीतकाय्यैजननयोग्यत्व, यथा दावद्ग्धवत्रवीजानां विप

रीत रम्भांकाण्डारम्भकस्व दृष्ट यथा वा शरात्र कांस्यपात्रेषितधृतस्य च मरण कारणत्व दृष्ट तथा दोषदूषिताक्षात्रापि मिथ्यार्थावभासजननयोग्यत्वमिति तत्त्वम् ।