सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे तन्मात्रपरिच्छेदस्तद्भावव्यवच्छेदी, तद्भावाविना भावेन तदात्मतया तु भावान्तराणां व्यवच्छेदक एवेति चेद्, न तर्हि तन्मात्रपरिच्छेदादपि तु तद्भावाविनाभा वाद्, न खलु धूमविज्ञानं प्रत्यक्षमपि धूमे धूमकेतना विनाभावावगमसहितं धूमकेतनं विदधत्प्रत्यक्षताम श्नुते किन्तु मानान्तरमेवैतद्भ्युपगमनीयमनुमानाइयं, तथाचायमनुभूयमानाभावाविनाभावेनान्येषामैतदात्म्यव्य वच्छेद्मभ्यर्थयमानो नानुभवमात्रं प्रमाणयितुमुत्सहते। नच मा भूदनुभवात्तद्न्यव्यवच्छेदावगतिस्तदभावाविना भावादेव तु सागम्येतेति साम्प्रतं, तदभावाविनाभावस्यैव तदन्यस्यासिद्धेः । न्तु विधीयमानवस्त्वभावाविनाभूतत्वादिति शङ्कते-* तन्मात्र परिच्छेद्' इति, एवन्तर्हि न प्रत्यक्षादन्यव्यवच्छेदः किन्त्ववि नाभावादिति परिहरति-“न तर्हि?” इति, ननु प्रत्यक्षमेवा विनाभावसहितं तद् बोधयिष्यतीति तत्राह “न खलु” इति, प्र कृते फलितमाह * तथाच' इति, अनुमानादेव तर्हि तद्न्यव्य वच्छेद इत्याशङ्कय परिहरति -*नच' इति,

  • धूमकेतनः = वा,ि ॥