पृष्ठम्:न्यायमकरन्दः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । मू०-नीलतादात्म्येन पीतादीनां कदाचिदप्यनु वलम्भात ततलिद्धिरिति चेद्. अथ यस्यैकस्वभावं विश्धं तस्य कथं न तादात्म्येनोपलम्भः । नच यदि नील तादात्म्येन पीतादयोऽनुभूयन्ते कुतस्तर्हि प्रवृत्तिनियम स्तदर्थिनामिति साम्प्रतं, तदसिद्धेः, कः खल्वयं प्रवृत्ति नियमो, नीलार्थिनः पीतपरिहारेण नीले प्रवृत्तिरिति चेद्, अहो वतास्य स्वदृष्टिपक्षघातेो यदसिद्धमसिद्येन साधयितुमुद्यतः, तस्माद् व्यवच्छेद्पुरःसरस्तद्भावावि नाभावा भावान्तराणामाषतव्यः, तथाच व्यवच्छदपुर स्सरस्तद्भावाविनाभावावबेोधस्ततश्च व्यवच्छेद् इति टी०-तदन्यस्य=नोलादन्यस्य पातादिः, नीलाभावाविनाभाव स्यासिद्धेः । अविनाभावं पूर्ववादी शङ्कते “नीले 'ति, नील तादात्म्येनानुपलम्भातू तदभावाविनाभावसिद्धिरित्यर्थः । हेत्व सिद्धयाः परिहरति * अथ' इति, प्रवृत्तिनियमेन तत्सिद्धिमा शङ्कय सोऽप्यसिद्ध इति परिहरति * तदसिद्धेः ? इति, पृष्टं म त्वोत्तरमाह पूर्ववादी “नीलार्थिनः” इति, परिहरात “अहो । वत” इतेि, नीलपीतयोर्मेदासिद्धौ प्रवृत्तिनियमोप्यसिद्ध इति भावः। फलितं दूषणमुपसंहारव्याजेन दर्शयति “तस्माद्” इति, एका

  • पीतात्य नीलाभावाविनाभाविन, नीलताहात्म्यनानुपलम्भाद्, इत्यनुमान हेत्व

सिद्धा परिहरतीत्यर्थः ।