३६ न्यायमकरन्दे मू०-व्यतिरेकधर्न पुनस्तज्जन्येति, तथा सत्यपेक्षार्थानि रूपणाद्, यस्य हि यत्र किंचिदायतते तत तदपेक्षत इत्य भिधीयते, तथा च न चेदमुष्या उत्पादस्तदधीनः कुतो ऽस्यास्तदपेक्षेति । नच तस्याः प्रमित्यर्थक्रिययोस्तदपेक्षेत्यस्येवायु ष्मतामपि सम्प्रतिपातिः । अपि चासन्निहितव्यवच्छेदे सान्निहितैकालम्बनाया अध्य टी०-रूपणादू । अनिरूपणं वक्तुं सापेक्षस्य लक्षणमाह – “यस्य हिं’ इतेि, यस्य काय्यैस्य यत्र कारणे किञ्चिद् जन्म प्रायतते= आयक्तं भवति (त्वयायत्तं कृषिफलमिति वदू) तत्काय्यै तत्कारण मपेक्षत इत्युच्यते । तत. किमित्यत आहः -*तथाच' इति, ननु तत उत्पत्त्यभावेपि लोके धडःप्रदीपमपेक्षते देवदत्तश्च कुठारं, तद्वत् किन्न स्यादित्यत आहः -*नच ” इति, न हि भेदज्ञानं स्व विषयप्रकाशने स्वार्थक्रियायां धर्मिप्रतियोगिज्ञानमपेक्षत इति परी चकैरङ्गीक्रियते तजन्यत्वेनैव तदपेक्षा वचनीया, तस्माजनकज न्यबुद्धयोर्ने समकालीनतेत्य यत्र धर्मिप्रतियोगिनोरन्यतरस्याप्रत्यक्षत्वं तत्र भेदज्ञानस्य ध र्मिप्रतियोगिज्ञानजन्यत्वेन व्याप्तत्वादुभयप्रत्यक्षतायामपि भेदज्ञानस्य तत्पूर्वकत्वमनुमातु शक्यमित्याह * अांपेच ?” इति, असन्निहेि. तस्य सन्निहितातू, सन्निहितस्यासन्निहिताद्धा व्यवच्छेदोऽसन्निहित व्यवच्छेदःतस्मिन्, तत्र सन्निहितैकालम्बना भेदबुद्धिर्धर्मिणं प्रति , श्धः ।
पृष्ठम्:न्यायमकरन्दः.djvu/४०
दिखावट