३१८ न्यायमकरन्दे मू•--चाविद्यावादानुपपत्तौ परशेषतः परमार्थिक एवायं प्रपञ्चः पुरुषभेदश्चेति रमणीयमिति, । तत्राभिधीयते- यत्तावदुक्तं न परस्य ब्रह्मणो विशु दचित्प्रकाशस्येयमाविद्य युक्ता प्रकाशाप्रकाशयोः प रस्परप्रत्यनीकवादधिकरणाधेयभावानुपपत्तेरिति, तत्र प्रकाशप्रकाशयोः प्रत्यनीकत्वादिति कोर्थः यदि प्र काशतदभावयोः परस्परविरोधादिति, किमायातं प्रकृते नहि वयं प्रकशाभावमाविद्यमाचक्ष्महे । येन सा प्रका शात्मनि ब्रह्मणि न भवेदिति, उक्तंहि ‘न भावो नाप्य भावः किंस्वनिर्वाच्यैव विद्या'इत्यधस्तात्, अथाप्रकाशं । जडं विवक्षितं कथं तर्हि तस्य प्रकाशप्रत्यनकिता सर्व स्यापि जडस्य प्रकाशसंवन्धादेवप्रतिभाना, यथोक्तं ‘‘त टी०-मुपक्रमते-‘‘ तत्राभिधीयत ” इति, । परमात्मनोऽविद्याभ यत्वानुपपतिं प्रथमनो दूषयितुमनुवदति-“ यत्तावद् ” इते, । किमप्रकाशशब्देन प्रकाशाभावः किं वा जडसुतप्रकाशविरोधीतिं विकल्याणं दूषयति-‘“ यदि ” इति, । कथमभ्युपगमइति त शह - उक्तं हि ’ इते, । द्वितीयमनूद्य दूषयति -‘अथर्भ इति, । प्रत्यनीकतैव किं न स्यादित्यत आह -° सर्वस्य ९५ इति, । विरोधे चैतन्यसम्बन्धेन जडस्य प्रतिभासो न स्या दिति भावः । बकेनैं श्रुतिविरोधमुदाहरति -‘‘ यथाक्तम् ” इति, ।
पृष्ठम्:न्यायमकरन्दः.djvu/३२२
दिखावट