सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामेरूपणम् । ३०५ म० -स्तीति. नचान्तरेण सम्बन्धमस्ति सम्वित्सम्वेद्ययो र्निरूप्यनिरूपकभाव इति चतुरस्रम् । तथा च सत्ययं सौधसितिमानमपि परिणततालफल कालिम्ना निरूपयेत, तस्माच्चिदात्मन' एवैकस्यानाद्य विद्यावशादविचारितरमणीयोयमतदाकारावभास इति चतुरस्रम् । तथा सत्येषोपि महायानिकपक्षानुप्रवेशो ब्रह्मवादि नां मोह एवेति व्यामूढभाषितं, नहि वयं नीलाद्याकारां चितिमन्युपगच्छामो येन महायानिकपक्षानुप्रवेशः किं वनाद्यविद्याक्रीडितमलीकनिर्भासमाकारप्रपंचमाचक्ष्महे। यदप्यत्यंतमसन्तं प्रपंचं कथमबिद्यपि दर्शयितुमलं न खल्त्रसख्यतरवधेत्यभ्यधायेतदप्पनाकलतपरत्र चनस्य भाषितं, न खल्वत्यंतमसंतंप्रपंचमविद्या दर्शयतीति टी०आत घटो घटस्य ज्ञानमिति निरूप्यनिरूपकभावसम्बन्धः किं न स्यादित्यत आह-‘‘ नच ” ” इति, । सम्बन्धाभावे दोषमाह ‘’ तथाच ” इति, । प्रपञ्चप्रतिभासस्य तर्हि का गतिरित्यत आह—‘‘ तस्माद् ” इति, । तस्मादुक्तोपालम्भो निरवकाश इत्याह — ‘तथासति ” इति, । कस्मादित्यत आह-‘नहि’’ इति, । तर्हि कथमभ्युपगम इति तत्राह-* किन्तु ” इति, । प्रपञ्चस्यत्यन्नासत्वानङ्गीकारादसत ख्यातिप्रसङ्गापलम्भोपि न• बतरतीत्याह— ‘६ यदपि ’ इति, । अयथार्थज्ञानसाधनाश्वानह १