पृष्ठम्:न्यायमकरन्दः.djvu/२७८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२७४ न्यायमकरन्दे मू ०-हन्त तर्हि सन्तानोच्छेदो मोक्षःतथासति सन्तानस्य फलिनोऽभावाद् न चान्तरेण फलिनं फलं स्याद्, नचाफलार्थी प्रवृत्तिः प्रेक्षावतामित्यसमञ्जसपक्षनिक्षे पक्षम एवायं पक्षः । परिशुद्धचित्तसन्तानोत्पादेपि प्राचीनसन्तानोच्छे दानस्य कश्चित्पुरुषार्थःपरिशुद्धचित्तसन्तान एव पु रुषार्थ इति चेत्, तथापि यस्य प्रवृत्तिमोक्षाय न .तस्य कश्चित्पुरुषार्थ इति सुनिरूपितो मोक्षः, मोक्षदशाया मपि च सन्तानपारिकल्पनायां क्लेशपरिकल्पनापि दुर्वा ट-७स्वाभिसन्धिमुद्धाटयति-‘ हन्ततर्हि ” इति, । तदु च्छेद एव किं क न स्यादित्यत आह-‘‘ तथासति ” इति, । मा स्तु फलिसवमिति तत्राह-* नचान्तरेण ” इति, । फल मपि मा भूदित्यत आह—‘ नचाऽफलार्था ’ इति, । योगाचारमते चियुद्धसन्तानोत्पादे प्राचीनसन्तानस्य किमु च्छेद किं वा नेति चिकट्यावे दोषमाह-‘‘ परिशुद्ध , इति, । युद्धसन्तान एव सम्भविष्यतीति शङ्कते-“ परिशद्ध ’’ इति, । वन्धमोक्षयोर्वैयधिकरण्यापाताद्, बन्धविच्छेद पर्यायस्य त स्मिन्नसम्भवाच्चेति परि हरति -‘‘ तथापि १ इति, । द्वितीये दोषमाह-‘ मोक्षदशायाम् इति, । विशुद्धचित्तसन्तान मोक्ष इस्येतदेव न घटते तत्रापि सन्तानस्य पूर्ववत्कल्पनामात्रशरी रतया मोक्षदशायामपि सन्तननिर्वाहककल्पनाऽनिवृत्तौ क्लेशादि कल्पनाऽनिवृत्तेरिति विकल्पद्वयमुपस्य वा स्नातंत्र्येण दूषणमा 99