पृष्ठम्:न्यायमकरन्दः.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डार्थत्वसमर्थन स । मू•-कश्चायं तैर्थिक इत्थमाचक्षीत-अपर्यायानेकपदाना मखण्डार्थवृत्तितानुपपन्नेति, न तावदैयाकरणः, तेन स्वयमेव प्रातिपदिकप्रथमाविभक्त्योरेकरसार्थवृत्तिताभ्यु पगमाद् ,नापि सौगतेनेत्थं पर्यनुयुज्येत, विज्ञानं भिन्नमिति वाक्ये त्रिज्ञानभिन्नशब्दयोरखण्डार्थता भ्युपगमाद्, न खलु विज्ञानादन्यस्तद्वेदोस्ति येन भि न्नपदस्यार्थातिरेकोवसीयेत, अत एव न गुरुमतानुसारि णोप्येवं पर्यनुयोगावकाशःसमानन्यायत्वात्, । टी-अखण्डवाक्यार्थस्य सर्वतन्त्रसलान्ततां विदऍयिषुस्ततत्परीक्ष कसम्मतुिं दीयितुमाह -“ कवयम् ” इति, तेन स्वयमेवति, ग्रद्यपि लिङ्गपरिमाणवचनेषु प्रथमातिरिक्तायैव तथापि प्रतिपदि कार्यं साऽनतिरिक्त, नच प्रथमाविभक्तेः प्रतिपदिकसमानार्थत्वे वैयर्यमेव स्यादिति वाच्यं, शब्दसाधुत्वसिद्ध्यर्थमपि तत्प्रयोगोप थतेरिति भावः । तदेव कथमित्यत आह -* नोखलु ” इति, । मेदस्य । विज्ञानस्वरूपानतिरिक्ततया भिक्षशब्दस्यापि विज्ञानमात्रपरस्याSसे द्यवच्छेदेन स्वयैकताया वकग्रत्वादिति भावः, उकं न्यायं । स्वरूपमेवादिमतान्तरेष्वतिदिशति —‘‘ अत एव” इति, । धर्मिव्यतिरिक्को भेद इति मतेप्युक्तन्यायमतिर्दशति