पृष्ठम्:न्यायमकरन्दः.djvu/२४१

From विकिस्रोतः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रवर्तकत्वनिर्धारणम । २३७ मू ~~शक्यते च लोकावसितश्रेयःसाधनतामेवार्थान्तर ससृष्टानवासताकारेणाकलयतः प्रमाणतापपादयतुम्, } अथापि स्याद्योग्येनान्विताभिधानं, क्रिया च स्वर सभङ्गुरा न कालान्तरभाविस्वर्गादिसाधनयोग्या कथं तदन्विताभिधीयेत. नचापूर्वव्यवधानेन योग्यता. पूर्व मपूर्वस्यैवाकल्पितत्वाद, अनभिहिते हि चिरभाविफल साधनभावे किमुपपादयितुं पूर्वमपूर्वकल्पना स्यात, । टी०-स्वाभिसन्धिमुद्धाटयति -“ शक्यतेच ” इति, । इष्टसाध नता लोकावसिता चेदनुवादकत्वं वेदस्य प्रसज्येतेत्यतआह « अर्थान्तर ’ इति, यागादिविशेषिता श्रेयःसाधनता न मा नान्तराधिगतेति भाव. । न यागादेरभिमतस्वर्गादिसाधनता वेदेन बोधयितुं शक्यते क्ष णिकत्वेनायोग्यत्वादित्यभिप्रेत्य शङ्कते -“ अथापि ” इति, कि । यापि योग्या कस्मान्न भवेदित्यत आह-* क्रियाच ” , । इति अपूर्वद्वारा सापि फलसाधनयोग्या कस्माभिवेदित्यत आह ‘‘ नच ” इति, । पूर्वे फलसाधनतावगमाद् इति शेषः, तदेव कथमित्यतआह- अन ” इति, । साधनस्य प्रतीत घपूर्वस्य कल्पनं तद्न्तर्भावेनेष्टसाधनत्वप्रतीतिरिति परस्परा अय इत्यर्थः। “