पृष्ठम्:न्यायमकरन्दः.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ न्यायमकरन्दं मू०--आग्नेयादयः पुनरापाततः परमापूर्वसाधनभावयो ग्यतावैधुप्रतिपत्तिशून्याः तेन तत्साधनतया श क्यन्ते निश्चेतुं, पश्चात्तु क्रमभाविनां साहित्यसिद्धयर्थं कल्पितेष्घपूर्वेषु व्यवधानमङ्गीकृतंपूर्व तु योग्यताव सायादन्वयःकारणान्तरातु व्यवधानमिति । तदेतत् परामर्शकौशलविरहविगृम्भितं, न्यायसम्पाद् टी०-आग्नेयादिष्वपि समानमेतदित्यत आह -‘‘ आग्नेयादय → इति, । इष्टफले प्यबघातादिकर्मणि नियमाहgजनने कर्मणोऽपि योग्यतात्रधारितैव, तेनाग्नेयादीनामप्यपूर्वजनने योग्यताप्रतीतेः प रमापूर्वसाधनत्वमवगम्यते, स्वर्गस्य तु कालान्तरभाबितय कर्म णस्तननयोग्यत्वाभावनिश्चयाक्ष तत्साधनतावगम्यत इति वैष स्यमित्यर्थः। साधनताऽवगता चेदलमपूर्वकल्पनयेत्यत आह-“ पश्चाद् ” इति, । अत्रगतसाधनत्वसिद्ध्यर्थमेघापूर्वध्यवधानमङ्गीकृतमित्यर्थं , । प्रागपूर्वकल्पनात्र साधनत्वमेव तर्हि न प्रतीयत इत्यत आह “ पर्वम् ” इति, । अन्वयः -साधनत्वेनेति यावद्, । तर्हि किमर्थं व्यवधानमित्यत आह * कारणान्तराद् इति, सहिष्यसिद्ध्यर्थमित्यर्थः।। दूषयतः -“ तदेतद् ” इति, ।। साम्यमेव दर्शयति--‘“ न्याय ’’ इति, । अदृष्टजननोपाध आप्नेयादीनां यदि येग्यता कर्मणः सुखजनने स्त्र तुल्यैव, काला १