पृष्ठम्:न्यायमकरन्दः.djvu/२१६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


२१२ न्यायमकरन्दं मू०-यद्यपि च लोके लिंडादीनां कार्याभिधायिता समधि गता तथापि कथमपूर्वाभिधानसम्भवो वेद इति विवेचनीयं, ननूक्तमेव स्वर्गकामपदसम्बन्धाद्देदेऽपूर्वविशेषाभिधान सिद्धिर् , नो खलु साध्यस्वर्गविशिष्टो नियोज्यः क्रियामेव कर्त्तव्यां प्रतिपत्तुमुत्सहते तस्या आशुतरविनाशशील तया फलानुकूलताऽसम्भवात्, तांडे तदुत्पादनानुकूलं यस्मिन्सति यदुत्पद्यते नासति, नचामुष्मिकं स्वर्गादि सति कर्मणि भवति, चिरविनष्टे तमिस्तदुत्पत्तेरिति, कथं तर्हि ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत'इत्य टी०–लोके लिड्डादीनां क्रियाकार्याभिधायित्वमङ्गीकृस्य वेदे नदति हितकार्याभिधायित्वं न सम्भवतीति दूषयति-‘“ यद्यपि ’’इति। उक्तमनुस्मारयति पूर्ववादी–“ मनु ” इति, । तावता कर थमतिरिक्ताभिधानसिद्धिरित्यत आह -‘‘ नोखलु ’” इति, । फलानुकूलत्वासम्भवन्दर्शयितुमनुकूललक्षणं तावद्दर्शयति-- “ तद्वि र । अधुना क्रियायां तदसम्भवमाह इति “ न च ” , इति। प्रतिबन्दीग्रहणेन परिहरति - कथं तर्हि ” इति, आग्ने यो, अनिषौमीय, उपांशुयाजआग्नेय, ऐन्द्रं दधि, ऐन्दं पय, इस्याने यादयः षड्गयजतेत्यत्र प्रत्ययेन , प्रकृत्या यागानां तदवच्छिन्न धिकारनियोगस्य च प्रताते , तस्यैव प्रतीत्यनुवन्धितयां विषयभूता