पृष्ठम्:न्यायमकरन्दः.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम् । २११ मू °–प्रसङ्गात्,तत्साधने नियमान्नातिप्रसङ्ग इति चेन् मैवं, तत्राप्यनधिगते तत्साधने फलकार्यताधिगमेपि प्रवृत्य नुपलम्भात, सत्येव तदधिगमे फलकायैताधिगमः प्र वृत्तिहेतुरिति चेदेवं तर्हि प्राप्तऽप्राप्तविवेकेन तत्साधना धिगम एव प्रवृत्तिहेतुरित्यलमति वाचालतया, । कृतिसाध्यतामात्रस्य च ममीहितसाधनतातिरेकित्व मभ्युपेयत एव नतु तन्मात्पराभिमतसिद्धिः, नच कृतिसाध्यतामात्रं प्रवर्तकम् ,अनिष्टादौ व्यभिचाराद्, उ गीतरीत्या च कार्यस्य प्रवर्तकत्वाभावे तत्र पदसङ्गतिग्र होपि परास्तावकाश एव, सङ्गतिग्रहेपि न सर्वपदानां तदन्वितस्वार्थाभिधायित्वमध्यवसातुं शक्यत इति प्रा गेवाभिहितम्, । टी०-अनवगते तत्साधने व्यभिचारस्तदवस्थ इति परिहरति-‘‘मै- वम् ” इति विरुद्धधर्माध्यासादिष्टसाधनातिरिक्तं कार्यमस्तीति यदुक्तं त विघटयति-‘‘ कृतिसाध्यता ” इति, । तर्हि पराभिमतकाएँ सिद्धिरित्यत आह —‘‘ न तु तद् ” इति, कृतिस्साध्यतातिरि क्तप्राधान्यस्याऽनिरूपणादित्यर्थं , तर्हि तन्मात्रमव प्रवर्तकमस्त्विति तत्राऽs ह-‘‘ न च ’’ इति, भाभूदस्य प्रवर्त्तकत्वं ततः किमित्यत आह –‘उन्नीत’’ इति, । सम्बन्धग्रहणमङ्गीकृत्याह—‘‘संगति” इति, । कार्यपदे कार्यान्वितस्वार्थाभिधायित्वाभावादित्यर्थः।