पृष्ठम्:न्यायमकरन्दः.djvu/२०२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


मू०-हितसाधनतावच्छिन्नो वा रागः, न तावत् प्रथमः पक्षः, फलरागे व्यभिचारात् । यस्तु फलराग एव साधने प्रवृत्तिहेतुरिति मन्येत तस्यान्यरागोऽपि चेदन्यत्र प्रवर्तकः स्यादतिप्रसङ्गः, तत् साधन एवेति नियमान्नाति प्रसङ्ग इति चेद्, न,तत्राप्य नवसिते फलसाधने सत्यपि फलरागे प्रवृत्त्यनुपलंभात्,। सत्येव तदधिगमे फलरागः प्रवर्तक इति चेत्, तर्हि प्राप्ताप्राप्तविवेकेन हितसाधनताधिगम एव प्रवृतिहेतुः, । अथ साधनगोचर एवरागस्तद्वचछिन्नः प्रवृतिहेतुः तथापि तद्वछिन्नस्य प्रवृत्तिहेतुतायां सिद्धा तावत् त स्यापि प्रवृत्तिहतुता टी०-लरागे व्यभिचार’ तस्यापि तत्साधने प्रवृत्तिहेतुत्वादित्याह

  • तत्साधन इति, । व्यभिचारेण दूषयति-“ नतत्र

इति,। परिहरति-“ तर्हि ” इति,। प्राप्तःफलरागो अप्राप्तमिष्ट साधनझानं तयोः कारणत्वविवेकेन क्रियमाणेनेति यावत्, । फलरागे सत्यपीष्टसाधनज्ञानस्यावगमाभावात्प्रवृत्त्यनुपलम्भात् त यैव प्रवत्तकत्वमित्यर्थः, द्वितीयविकल्पमाशङ्कते -“ अथ " इति, । विशिष्टस्य प्रवृत्तिहेतुत्वे विशेषणांशस्यापि तदूहेतुत्वमनि वार्यमित्यर्थः, । इष्टसाधनातामात्रं न प्रवत्र्तकं रागाभावे प्रवृत्यनुपलम्भादिति