पृष्ठम्:न्यायमकरन्दः.djvu/२०३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रवर्तकत्वावधारणमम् । मू०-सत्यं नतु तन्मात्रं प्रवृत्तिहेतुः, सम्भवति हि क दाचिज् जानन्नपि फलसाधनतां जान्हवीजलाप्लवनस्य रागवैधुय्र्यान्न प्रवर्तत इति, । स्यान्मतं न तत्र फलसाधनतैव विज्ञाता, फलं हि नाम तदेवाभिधीयते यदभिलाषगोचरीभूतं यदा पुनर्जा न्हवीजलाप्लवनादौ नायं प्रवर्तते तदा नास्त्येव तत्फलेंप्यभिलाषः, नचान्तरेणाभिलाषगेचरीभावं फल तैवेति कथं तत्साधनस्य फलसाधनता कथन्तरां च फ लसाधनज्ञानेप्यप्रवृत्तिरभिधीयते कथंतमांच रागाव च्छेदेन प्रवृत्तिहेतुभावः कलूप्येत, । टी०-शङ्कते पूर्ववादी –“ स-त्यम्' इनेि, फलस्यच्छाविषयत्वलक्षणत्वादिछानुत्पादेन तत्र तत्साधनस्ये ष्टसाधनत्वाभावान्न व्यभिचार इतेि सिद्धान्तिनः शङ्कामुत्पादयति

  • स्यान्मतम् ' इति, । फलसाधनत्वाभावं दर्शियितु फललक्ष

णमाह-' फलंहि ” इति, । तत. किमित्यत आह-“ यदा पुनर् ' इति, मा भूदभिलाषस्तथापि कथमिष्टसाधनत्वाभाव इति तत्राह--- “नचान्तरेण ” इति, । फलसाधनत्वाभावादेव न प्रवृत्तिव्यभिचार इत्याह- “कथंतरां च * इति, । व्यभिचा राभावादेव न तत्परिहाराय रागावच्छिन्नत्वमपि वचनीयमित्याह--

  • कथन्तमाञ्च इति, ।