पृष्ठम्:न्यायमकरन्दः.djvu/२०१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रवर्तकत्वनिर्धारणम् । मू०। -वा तिस्मन्ननपेक्षितव्यापारे मा प्रसाङ्क्षीत्, अन्यथा हि यजमानसमापिता कारीरी भवत्यवग्र हविशोषिशस्यानां कृषीवलानामभिमतोपाय इति प्रस ज्यते तत्रापि प्रवृत्तिः, । नापि कृतिसाध्यतामात्रं फले व्यभिचाराद् । अतएवेोक्तमाचार्यवाचस्पतिना ‘कर्तव्यतैकार्थसम वायिनी समीहितसाधनताविधिर्” इति, । नचव कृतिसाध्यतामात्रातिरेकिणी कृत्युद्देश्यता ना म प्रमाणपथमवतरतीति निरूपयिष्यामः, । ननु हितसाधनताया अपि प्रवर्तकरागोत्पादहेतु भावेनान्यथासिद्धत्वान्न प्रवर्तकताध्यवसानं, मैवं, वि तथाहि रागमात्रं वा प्रवृत्तिहेतुः, टी०-शेष:, स्वतोऽन्यतो वा सिद्धे हि साधने प्रवृत्तिर्माभूदित्येतदर्थ कृतिसाध्यविशेषणमङ्गीकरणीयमित्यर्थ , कृतिसाध्यतातिरिक्तकृत्युद्देश्यत्वमङ्गीकृत्येष्टसाधनस्य भूतादौ व्यभिचारः परिदृतस्तदेव तु नास्तीत्याह-* नच ?” इति, । य द्वेष्टसाधनकार्यपक्षयोर्न परिहारसाम्यं कार्यपक्षेतिरिक्तकृत्युद्देश्यत्वाऽऽ ङ्गीकारादित्यत आह-“ नचव ” इति, । अन्यथासिद्धत्वादिष्ट साधनस्यापि न प्रवृत्तिहेतुन्नति शङ्कते-* ननु इति, । न फ