पृष्ठम्:न्यायमकरन्दः.djvu/१९८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्द मू०-यदपि तत्सिद्धये वहुविधवादिविवादानुपन्यस्य नि राकृतं तत्र फलवोधपर्यन्तानां प्रवर्तकतानिराकरण मस्मदिष्टमेव चेष्टितं, कः खल्वनुकूलमाचरति प्रतिकू लमाचरेत । फलसाधनताप्रतीतिरपि न प्रवर्तिका, इति तु न क्षम्यते तस्याः स्वात्मन्यन्वयव्यतिरेकावासितप्रवृत्तिहेतु त्वात, नो खल्वयं कदाचिदप्यनवसितश्रेयःसाधनभा वव्यापारे प्रवृत्तः, प्रैषादयोपि हि समीहितोपायभावानु रोधेनैव प्रवर्तकाः, अननुविधेयप्रैषादिषु प्रवृत्यभावात, यत्तु * भूतादौ व्यभिचार'इति तन्न हृदयंगमं, ये नापि हि फलसाधनताधियः प्रवर्तकता नास्ति किन्तु कार्यस्यैव सेत्यभ्युपगतं तेनाप्यभ्युपगतैव तावत्प्रवर्त टी०-तदूषयति-“यदपि इति । श्रेयःसाधनस्य प्रबर्त्तकत्वान्न प रिशेषसिद्धिरित्यर्थः, । व्यतिरेकंदर्शयति-“ नोखलु ?' इति । कथं तर्हि तदभावेपि प्रैषादिषु प्रवृनिरित्यत आह -* प्रैषाद् योांपे ' ' इति । तदेव कथमित्यत आह-“अननुविधेय' इति । व्यभिचारित्वेन नेष्टसाधनस्य प्रवर्त्तकत्वमित्युक्तमनुवदत इति, । यादृशेष्टसाधनस्य कार्यवोधजनकत्वै तादृशस्याव्यभिचारात्प्र वर्तकत्वमुपपन्नमिति परिहरति -“ येनापि ?” इति,।