प्रवतैकत्वावधारणम् । मू०-तद्यथा वैदिकवाक्यशेषानुसारेण दीर्घशूकाद्यर्थमेव युववराहादिपदं निर्णीयते तथैव वैदिकनियोज्याभिधायि स्वर्गकामपदसमभिव्याहारानुसरणेन लिङ्ङादीनामपूर्व कार्याभिधायकत्वनिर्णयो नानुपपन्नः, तदेवं सङ्गतिग्रहणसम्भवादुपपन्नमपूर्वकाय्र्यात्मनि प्रामाण्यमास्रायस्येति सिद्धम्, । अत्राभिदध्महे-यत् तावत् ‘कथमिह कार्यात्मनि'इत्या रभ्य ‘बालाः समाकलयन्ति’ इत्यन्तमभिहितं, तद्यु ज्येत यदि कार्योधस्य स्वात्मनिप्रवर्तकभावः प्रसिद्ध टी०-वेदवाक्यविमर्शनेन प्रसिद्धातिरिक्तविशेषनिर्णये ष्टान्तमाह-- तद्यथा ?” इति, । 'यवमयश्चरु ' 'वाराही उपानहौ ' ' वै। तसे कटे प्राजापत्यान् सचिनोति' इत्यत्र यव-वराह-वेतसाः कि माय्र्यसिद्धा. किं वा म्लेच्छप्रसिद्धाः प्रियडुकृष्णशकुनिजङ्कनः स्वीक र्तव्या इति सन्देहे * अथान्या औषधयो म्लायन्तेऽथैते मोदमाना तिष्ठन्ति ' * वराहं गावोनुधावन्ति ' * अप्सु जो वेतस्स ' इति वाक्यशेषद्धयानुसारेण यववराहवेतसपदानि दीर्घश्शूक-शूकरवानी रपरतया यथा निर्णीयन्ते तया स्वर्गवाक्यगतस्वर्गकामपदानुसारे गण लिङ्ङादिपदं क्रियातिरिक्तकाय्र्वविषयतया निर्णयत इत्यर्थः, । लोके वृद्धव्यवहारानुसारेण शब्दानां कार्यपरत्वमुक्त बिघट यति * यत् तावद् ' इति, परमतनिराकरणेन परिशेषात्कार्यपरत्वमुक्तं परिशेषाभावन
पृष्ठम्:न्यायमकरन्दः.djvu/१९७
दिखावट