मू०-यश्च कार्य बुध्यते स नियोज्यः, यथाह “ नियो ज्यः स च कार्य य. स्वकीयत्वेन बुध्यते ?” इति, । स च कमिसंबन्धात्साध्यस्वर्गविशिष्टस्तस्मिन्नेव कार्ये नियोज्यतयाऽन्वेति यदेव तस्य काम्यमानोपाय तामनुभवितुमुत्सहते, न च क्रिया क्षणभङ्गिनी कालान्तरभाविफलानुकू लतां गन्तुमलमिति क्रियातो भिन्नमपूर्वमेव मानान्तरा वेद्य लिङ्डादयः कार्यमवगमयन्ति , । तच मानान्तरापूर्वतया अपूर्वमिति गीयते, तदाह स्म'क्रियादिभिन्नतं यत्कार्य वेद्य मानान्तरैर्न तत्, अतो मानान्तरापर्वमपूर्वमभिधीयते’ इतिः । टी०-तत किमायातमित्यत आह-“यश्र ' इति, । तथापि किमित्यत आह -“ सच ?” इति, । खर्गे कामो यतः स्येति शब्दात. खर्गस्य कामनासम्वन्धात्सिद्धे च कामनासम्भवा त्साध्यस्वर्गविशिष्ट नियोज्यः काय्र्यान्वितः प्रतीयत इत्यर्थः, ॥ कस्मिन्नित्यत आह--“यदेव इति , । यागादिक्रियैव तथा किं न स्यादित्यत आह - ** नच इति, । भवतु क्रियातो भिन्न तथाप्यपूर्वत्वे किं निमित्तमित्यत {{ प्रवतेकत्वावधारणम् । येति यावत्, ।
पृष्ठम्:न्यायमकरन्दः.djvu/१९५
दिखावट