पृष्ठम्:न्यायमकरन्दः.djvu/१९४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१९० न्यायमकरन्दे मू ०-काय्यै प्रागुन्नीतया नीत्या शब्देनैव बोधितमित्युपपन्न एव काय्यें शब्दशक्तयध्यवसायः, । तत्राप्यावापोद्धाराभ्यां लिङ्ङादेः काय्र्याऽभिधायि त्वमितरपदानां च तदन्वितस्वार्थाभिधायित्वं व्युत्पित्सु भिरध्यवसीयते, । तदेवं लोके स्वव्यवहारसमधिगतप्रवृत्तिहेतुभा वे काय्यर्यात्मनेि व्युत्पत्तिसम्भवाद् वेदेपि लिङ्ङा दियुक्तवाक्यप्रतिपाद्य कार्यमेव प्रतिपद्यन्ते, तच का र्यमन्वितमभिधेयमिति स्थितौ सत्याम् “ अन्निहोत्रं जु हुयात्स्वर्गकाम ' इत्यादिवाक्येषु षष्ठाद्यराद्धान्तानुसा रेण स्वर्गकामपदेन नियोज्यतया स्वर्गकामः समर्पणीय इतेि स्थितम्, । टी०-नुविधायितया इति यावत्, । तथापि कस्य. पदस्य कुत्रार्थे विशेषत: शाक्तपरिझानमित्यत आह-* तत्र ?” इति,। । भवतु लोके वेदवाक्येषु तु कथं कार्यमित्यतअ ह–“तदेवम्’ इति, । तथापि क्रियातिरिक्तकार्याभिधायकत्वं कथमित्यत आह तच्च इति, ।' षष्ठाद्यराद्धान्तानुसारेण'=खर्गकामपदं न कत्तुं फलस्य वा समर्पणपरं किन्तु नियोज्यस्येति प्रतिपादितराद्धांतानुसा