मू०-गमनुसंधत्ते तथेहापि न जीवो जीवान्तरभोगमनु संद्धातीति समानं, स्वरूपानुसन्धाने तु नास्माकं का चन क्षतिः । अथैवमपि चरणतललग्नकण्टकोद्धरणाय पाणितः लव्यापारवचैत्रशरीरोपाधिकवेदनाहेतुपरिहारायमैत्रगात्र ट०-नयनविशेषितघ्राणविशेषितयोश्शिरश्चरणोपाधिकयोश्धाभेदः किम्भेदो वा नाद्यः विशिष्टयोरभेदे विशषणीभूतनयनादीनामप्यभेद प्रसङ्गादू, नयननाशे च घ्राणावयाविनोऽपि नाशप्रसङ्ग इति गन्धमपि न गृह्णीयाद्, एवं नयनविकलोऽपि रूपं पश्येद् घ्राणावच्छिन्नस्य विद्यमानत्वात् तद्भेदेनेतरस्यापि विद्यमानत्वातू, शिरश्चरणावच्छि न्नयोरभेदेन पादवेदनां शिरःसुखं च पादेप्यनुसंदधीत, नापि द्वितीयः, अतिप्रसङ्गपरिहाराय किंचिदवयवविशेषितस्यावयवान्तरे भोगान नुसन्धानस्यानिच्छताप्यभ्युपगमनीयत्वादू, औपाधिकभेदेन कुम्भा पवरकनभसोरल्पत्वमहत्वव्यवस्थाया लोके दृष्टत्वादू, इन्द्रियस्या तीन्द्रियत्वेन चक्षुषा रूपमद्राक्तं, प्राणेन मन्धमनुभवामि, इतिप्रत्य भिज्ञानुपपत्ते , कालद्वयोपलक्षितस्य सोयमितिप्रत्यभिज्ञाविषय त्ववत् तदुपलक्षितस्यैव रूपमन्वभूवं गन्धमनुभवामीतिप्रत्याभ शाससंभवातू प्रदेशान्तरविशिष्टस्य न प्रदेशान्तरे भोगसम्भवः, तथा शरीरान्तरविशिष्टस्य न शरीरान्तरभोगसम्भव इति भावः । उपलक्षितस्यानुसन्धानप्रसङ्ग इति द्वितीयं पक्ष दूषयति “स्वरुपानुसन्धान” इति, भोगाभावेपि वेदनाहेतुपरिहारः किमिति न भवेदित्यत आह--
पृष्ठम्:न्यायमकरन्दः.djvu/१९
दिखावट