पृष्ठम्:न्यायमकरन्दः.djvu/१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१४ न्यायमकरन्दे मृ०-रन्, इत्येकस्मिन्नेव काये चेतनावाननेक इति स्याद्, एवं च भिन्नाभिप्रायानकचेतनाधिष्ठितमेकदैव विरु द्वदिक्क्रयं शरीरमुन्मथ्येत, अक्रियं वा प्रसज्येता,तो- ऽचेतनावयस्यात्मन एव चैतन्यमास्थेयं, तथा च तत्रैव सखाद्योऽपीति कथमेषामव्यतिकरः, अतः काल्प निक्येव कायैक्ये सुखदुःखव्यवस्थेति सिद्धम्, एवं च न कायभेदेपि पारमार्थिकपरुषभेदाक्षेपकतासम्भव इत्य भिहितमधस्ताद् । यत्विदं चोद्यते देहैक्यवदात्मैक्ये देहभेदेप्यनु सन्धानप्रसङ्ग इति । अत्र बूमः-न तावत तत्रापि प्रदेशः प्रदेशान्तरभो टी०-भवतु चैतन्यं केो दोष इत्यत आह “एकस्मिन्नेव” इति, तथापि किमनिष्टमिति,तत्राह“एवं च' इति । विरुद्धा दिशि क्रिया यस्य तत्तथा। तस्माद्वयविनश्चैतन्यमिति द्वितीयपक्षः परिशिष्यते तत्र च सहावस्थानमेवेत्याह-"” इति, अव्यतिकरः= तथाचव असाङ्कय्र्यम् । साधितं दृष्टान्तमुपसंहरति-“अत” इति, दाष्टौन्तिके फलितमाह-“एवंच” इति, किमेकदेहेन्द्रियैर्विशिष्टस्य देहान्तरे भोगानुसन्धानमापाद्यते किंवा तदुपलक्षितस्य, नाद्यः निदर्शनेपि तत्तदवयवविशिष्टात्मप्रदेशस्यावयवान्तरे भोगानुसन्धानाभावा दित्याह-“न तावद्” इति, ननु तत्रापि प्रदेशः प्रदेशान्तरे भोग मनुसन्धत्तेऽपरथा यश्चक्षुषा रूपमद्राक्षं यश्च पादे वेदनावानस्मि सएवाहमिदानीं गन्धं जिघ्राणीति शिरसि सुखमनुभवामीति च प्रतिसन्धानाभावप्रसङ्गाद् इतिचेद्, न, विकल्पासहत्वात् किं

  • उन्मध्यत = विदीय्येत ।