पृष्ठम्:न्यायमकरन्दः.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रज्ञभेदनिरासः । मू०-अथोद्धधःकायभागोपाधिकपरुषप्रदेशस्समवायेि नोर्न युगपदेकत्र भावः सुखदुःखयोरीिति, तहींहापि देहभे दोपाधिकैकपुरुषप्रदेशविशेषाश्रयतयोपपन्नव्यववस्थानान्न वास्तवाधारभेदाक्षेपकत्वासम्भवः सुखादीनाम् ॥ योऽपि मन्यते शरीरपरिमाणःखल्वात्मा तेनास्य श रीरवद् भागसम्भवात् तद्भागभेदवर्तिनेोरेव सुखदुःख योरेकशरीरेप्यसङ्करः, तथा च शरीरभेदेपि पारमार्थिकः सुखाद्याधारभेदाक्षेप इति, न, तस्यापि तत्राप्यात्मभागा एव सुखदुःखभेद्भाजो भवेयुश्चेतनाभिसम्बन्धनियमात्सु खादीनां, तथाचात्मभागा अपि चेत्तद्भाजस्तेऽपि चेतये ही०-सुखदुःखयोः प्रदेशभेदेन सहानवस्थानमाशङ्कते-“अथ' इति, औपाधिकात्मप्रदेशादेव प्रकृतेपि व्यवस्थासम्भवाद् इत्यर्था पत्तेरन्यथाप्युपपत्तिरिति परिहरति “ तर्हि ?” इति, देहोपाः धिको य एकः पुरुषः तस्य प्रदेशविशेषः, स एव वा प्रदेशविशेषः, तदाश्रयतयोपपन्ना व्यवस्था येषां ते तथा तेषामुपपन्नव्यवस्थानां, तस्माद्धा * हेतौ पञ्चमी । जनमतेन सहानवस्थानविरोधमाशङ्कते “योपि” इति, प्रकृते किमायातमित्यत आह* तथाच ” इति, किमवयवानां सुखदुःख सम्बन्धः किंवाऽवयविन इति विकल्प्याद्य दूषयति “न तस्यापि” इति, भवतु चेतनाभिसंबन्धनियमः सुखादीनां तथापि कथमवयवेषु तदभाव इति तत्राह " तथाच ' इति ।

  • तस्मादूवा = व्यवस्थान'दूवा इति पञ्चम्यन्तपाठे वा,