सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-न, नियामकाभावाद्, अथापि स्यादात्मविशेषगुणा बुद्धाद्यो न युगपदुत्पद्यमाना उपलभ्यन्तेगन्धरसादिोधियां पय्र्यायेणोद्यदर्शनाद्, इति, तदिदमसुन्दरं, तत्कारणेन्द्रि यूमनःसंयोगक्रमस्य काय्यक्रमहेतोस्तत्रसम्भवाद, इह तु तोष्णविज्ञानवदात्मनःसंयोगस्यापय्ययेण सुखदुः खेोत्पादनसमर्थस्य सम्भवाद्, उपपन्नःसुखदुःखयोरात्म समवेतयेोरन्तःकरणेन संयुक्तसमवायनिबन्धनैकोपलम्भ गेाचवरभाव इति । अलं वा विवादेन, अस्तु वा पय्र्यायेण सुखदुःख योरुत्पादः, विनश्यदविनश्यतोस्तु युगपद्भावाद्पय्यये टी०-गूढाभिसन्धिरुत्तरमाह-“न नियामकाभावाद्’इति । पूर्व वादी स्वाभिप्रायमुद्घाटयति –“अथापि स्याद्” इति, सुखदुःखे पय्र्यायेणैव जायेतें आत्मविशेषगुणत्वाद् रूपरसादिज्ञानवद् इत्यनुमानं नियामकमिति भावः । तदनुमानं क्रमवत्सामग्रीमत्वोपाधिना दूषयति

  • तदिदम्” इति, उपाधेः साधनव्यापकत्वमाशङ्क्य परिहर

ति-“इहतु' इति, युगपत्सामग्रीसम्भवस्य न्यायेनोपपादनान्न तद्विरोधे साधनव्यापकतेति भावः । युगपदुत्पादमभिधायापय्य येण सुखदुःखयोरुपलम्भमाह –“उपपन्न' ' इति । क्रमेणोत्पादमङ्गीकृत्वापि सहोपलम्भमाह “ अस्तु वा ? इति, विनश्यदविनश्यतोः सहावस्थानादुपलंभाञ्च सुखदुःखयोः सहानवस्थानं न विरोध इति भाव ।