पृष्ठम्:न्यायमकरन्दः.djvu/१५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रज्ञभेदनिरासः । मू०-कषौं सकृदेवेन्द्रियद्वारा मनसैवाधिष्ठीयेते नयनद्वा रेव तत्सन्निकर्षः कुम्भादीनां, तदधिष्ठितौ च शीतोष्णविष यात्मिकामेकामेव धियमाद्धाते, साचात्मनि भोगायतन देहवर्तिनि मनःसंयोगविशेषजुषि जनयत्यपथ्र्यायमेवसु खदुःखे । नैवास्यात्मविशेषगुणानामपय्र्यायेणेोत्पत्तिरितेि चेत , टो०-“तौच ?” इति, नचकुम्भादिसन्निकर्षाणामपि क्रमेणैवाधिष्ठा नादसम्प्रतिपन्नो दृष्टान्त इति वाच्यम्, तथा सति दशा घटा इति समू हालम्बनविज्ञानानुदयप्रसङ्गाडू , नच तत्रापि ऋकमोत्पन्नतत्तद्विज्ञानसमुः पजनितसंस्कारकारणवकः समूहविषयः प्रत्ययोऽल्य एवेति वाच्यं स न्निकर्षवत्सस्काराणामप्यनेकेषामेकसमूहालम्बनविज्ञानकारणतालु पपत्ते, तेषां च सकृदेव मनसाधिष्ठितानां तथात्वे प्रकृतेपि समैः समाधानमन्यत्राभिनिवेशादिति भावः । ततः किमित्यत आह-* तदधिष्ठितौ खदुःखयोर्निमितकारणयौगपद्यमभिधाय समवायसमवायिनोरापि तदाह- * सा च इतेि । प्रात्मनि-भोगायतनदेहवर्तिनि -मन संयोगविशेषजुषि-इति विशेषणत्रयेण निमित्त-समवाय्यसमवायिन क्रमेण निर्देशः । प्रात्मनः सर्वगतत्वेन सर्वत्रसुखदुःखयोरुत्पत्ति व्या वर्तयति-“देहेति , शवशरीरसंयोगं व्यावस्तैयति-भोगेति, नव तार्कि कररीत्या वा शरीररात्मसंयोगोऽसमवायिकारणान्तरं निर्दिशतिः “भोगायतने,ति, विशेष= पदेन सौषुप्तिकमन:संयोगं व्यावर्तयति। गूढाभिसन्धिः शङ्कते-“नैव' इति,