सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-अथ विरुद्वरानेकधर्मता व्यवस्था-परस्परविरुद्धा त्मानः सुखाद्य इति, कोयं विरोधः सुखादीनां, नतावत्स हानवस्थानं, खरतरदिनकरकरबातपातनिर्दग्धकायस्य शिशिरसलिलावगाढापरभागस्यापय्यॉयमेव सुखदुःखो पलम्भसम्भवात, तथाहि-एकमेव त्वगिन्द्रियमनेकदे शाभ्यां शीतोष्णाभ्यामपय्ययं सन्निकृष्यते, तौ च सान्नि टी०-त्येवमर्थमेकस्मिन्ननेकधर्मासम्भवो न वत्कुमुचित इत्यर्थः । तृ तीयमुत्थापयातेि “अथविरुद्ये' ति, किं सहानवस्थानलक्षणो वि राधः, किं वध्यघातकभावो वा, भावाऽभावो वा, इति विकल्प्याद्यां दूषयति “नतावद्' इति । युगपत्सुखदुःखयोरुपलम्भ दिदर्शयिषुः प्रथमं तयोर्युगपदुत्पादसामग्रीं सम्पादयति-“तथाहेि” इति, न नूद्धौध:कायभागयोरपि त्वगिन्द्रियस्य भिन्नत्वादणुपरिमाणस्य च म नसः क्रमेणैव तत्सन्निकर्षतक्रमेणैव शीतोष्णविज्ञानेोत्पाद इति तत्राह “एकम्' इति, स्पर्शोंपलब्धेरन्यथानुपपत्त्या वा, तस्या: काय्र्यतया करणकाय्यैतत्वानुमानेनधात्वागेिन्द्रियमवगम्यमानमेकमेवाऽवगम्यते, प्रत्यवयवमनेकत्वगिन्द्रियकल्पनायाँ कल्पनागौरवप्रसङ्गाद्, युगपत् सर्वाङ्गीणशीतोष्णयोरनुपलब्धिप्रसङ्गाचैकमेव तदित्यर्थः । भवतु सन्निकर्षयोयौगपद्ये तथापि मनसाधिष्ठानं तयोः क्रमेणैवेत्यत आह

  • प्रचषण्डमार्तण्डमरीचिकम्याभिघातप्रतप्तकलेवरस्य ।

तस्या