पृष्ठम्:न्यायमकरन्दः.djvu/१३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


क्षेत्रज्ञभेदानेरासः । मू०-तदिदं न समञ्जसं, तथा हि--यत्तावद् व्यव स्थान्यथानुपपत्तिः प्रमाणमिति, तत्रेदं भवान् प्रष्टव्यः केयं व्यवस्थेति, चैत्रः सुखी मैत्रः दुःखीत्यैवैव चेत. कथन्तर्हि चैत्रमैत्रभेदासिद्धावेवषा सिध्येत, तद्भे दन्त्वनयैव साधयतो दुष्परिहरः परस्पराश्रयदोषः, सिद्धे भेदे व्यवस्थासिद्धिः सिन्डा च व्यवस्था तत्साधिकेति, अथावधीरिताधारभेदः सुखादिभेदो व्यवस्थेति, सापि कथं क्षेत्रज्ञभेदमाक्षिपेत, न खल्वेकस्मिन्ननेकधर्मास म्भवो येनाधारभेदः प्रमीयेत, मा भूदू दहनपचनाद्य नेकधर्मासम्भवो वन्हेः । टी०-आदिशब्देन ‘आत्मा निराधारो निरवयवद्रव्यत्वातू का लवदू’ इत्याद्यनुमानविरोधात “स्वे महेिम्नि' इत्यादिश्रुतीनाम प्यन्यपरतानयनैः द्रष्टव्यम् । भिन्नाधिकरणानेकधर्मता व्यवस्था, अथ धर्मभेदमात्रं वं , विरुद्धानेकधर्मता वा, इति विकल्प्याद्य दूषयति “कथन्तर्हि इति, ननु व्यवस्थयैव चैत्रमैत्रभेदोपि सिद्धयतीति, नेत्याह “तद्भे दन्तु ” इति । द्वितीयमुत्थाप्य दूषयति “अथावधीरिते' ति, एकस्मिन्ननेकधर्मासम्भवे दोषमाह “माभूदू” इति, यद्येकस्मि झनेकधर्मासम्भवस्तर्हि वह्वावपि दहनपचनादयो धर्मा न भवेयुः सम्भवन्ति च, तस्माद् वन्हेर्दहनपचनाद्यनेकधर्मासम्भवो माभूदि

  • स्वातिरिक्ताधाराभात्रपरतया नयनम् ।