पृष्ठम्:न्यायमकरन्दः.djvu/१८१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सिद्धे सङ्गतिग्रहसत्त्वस्थापनोत्थापनम् । १७७ मू०-मरूपप्रपञ्चमयतया विवेकतः स्फुटतरमनवभास मानो न भासत इव सांसारिकदशायाम्, यथा खल्वापातजायां संविदि भासमानावपि सामा न्यविशेषौ न भासेते इव विवेकानध्यवसायात् : स्वयमेवच ‘सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्य मानं प्रत्यक्षमुपपद्यत’ इत्यभिधायानन्तरमभिहितं प्रमे यपारायणे * किन्तु वस्त्वन्तरानुसन्धानशून्यतया सा मान्यविशेषरूपता न प्रतीयत ' इति, तथा ‘नि- र्विकल्पकेन सामान्यविशेषौ द्वे वस्तुनी प्रतिपद्य मानेनापि तयोर्भेदो न प्रत्येतुं शक्यत इति च, ब्रह्मसाक्षात्कारोन्मीलितनिखिलाविद्योपप्लवस्तु परित टी०-अवभासानवभासावेकस्मिन् विरुद्धावित्यत आहः -* यथा खल ?' इति, । आपातजायां=निर्विकल्पिकायाम्, इदमप्यसङ्गत मित्याशङ्का तदीयग्रन्थदर्शनेन दृढयति- * स्वयमेव च ** इति, । अभिहितमेव दर्शयति-* केिन्तु इति, । व्यक्तयन्त रप्रतीतावनुवृत्तत्वेन सामान्यरूपता प्रतीयते व्यावृत्तत्वेन तदि तरस्य विशेषरूपता, निर्विकल्पके तु वस्त्वन्तरस्यानवभासे तद्भ यरूपता न प्रतीयत इत्यर्थः । ग्रन्थान्तरमाह-“ तथा ' इति, । मुक्तः संसारदशातो वि ' शेषमाह-* ब्रह्म ” इति,। ब्रह्मसाक्षात्कारेणोन्मीलितो निखि