१७६ न्यायमकरन्द मू०-भोगोस्य भयहेतुः, स तु साक्षात्कारः, नच पर परिवर्तिन्यस्ति दुःखे स इति चेत्, सत्यं, स एव तु मत्प्रतिकूलमेतदित्यनुभवः, । तथाहेि मत्प्रतिकूलमेतदित्यनुभवन्नयं तप्यते, प्रेमा स्पदपरिपन्थ्यर्थश्च प्रतिकूलः प्रतीयत इत्युपपन्न आ त्मनि प्रेमा निरुपाधिकः, तथाचवायं परिशेषतः परमा नंदः प्रकाशत इत्युक्तम् । नचैवं मुक्तिसंसारयोरवि शेषेो येन न कश्चिदपि मोक्षायातिष्ठेत, प्रकाशमानेपि ह्ययमानन्दोऽनाद्यनिर्वाच्याविद्योपदर्शितविविधविचित्रना टी०-खदुःखात्परदुःखस्य वैषम्यमाशङ्कते --* भोग ?' इति, । भोगरूपमेवदर्शयति- * सतु ?” इति, । तथापि कथमुक्तदोष परिहार इत्यत आह--“ नच ” इति, । अस्ति दुःखे स:=यो- गिव्यतिरिक्तस्येति शेषः। उक्तरूपतामन्तरेण दुःखभोग एव न सं भवतीति परिहरति-“स एवतु” इति, । अनुभवं स्पष्टयति-“ तथाहि ” इति, भवतु कथं तावता भिमतसिद्धिरित्यत आह-“ प्रेमास्पद ” इति, । मुक्तिसंसा रयोरविशेषप्रसङ्गः दूषयनि –“ नचैवम् ?” इति, । अनाद्यवि द्योपदर्शितश्चासौ विविधो विचित्रो नामरूपप्रपञ्चः, तन्मयतया=त- दुपप्लुततयेति यावद्, विविधः=पृथिव्यादिपञ्चरूपभेदेन, विचित्रस्तु तद्वान्तरजातिभेदेन, ।
पृष्ठम्:न्यायमकरन्दः.djvu/१८०
दिखावट