पृष्ठम्:न्यायमकरन्दः.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिग्रहसत्त्वस्थापनम् । मू०-वाक्यभेदस्यायोगात, तस्मात न बोधविधिपरा वे दान्ता इति सिद्धम्, । यदाय सत्यामाप सध्राथस्लङ्गन्ता पदानां नानन्दरुपे ब्रह्मणि मानभावो वेदान्तानां प्रमाणान्तरविरोधादिति, तदप्यसारं, मानान्तरविरोधेपि वेदान्तानामेव प्रावल्यहे तारुत्तकत्वात्, न चाऽस्त्यद्दत मानान्तरावराध इत्य धस्तादावेदितं, । नच मानान्तरेण नावभासत इत्येव विरोधोऽतिप्र सङ्गात, योग्यता च तद्रूपस्य मानान्तरं प्रत्यसिद्वैव, परमान्नदरूपता तु परप्रमास्पदतया प्रकाशत एव, अस्ति हि मा न भूवं भूयासमिति प्राणभृन्मात्र टी०-मानान्तरविरोधेनोक्तमप्रामाण्यमनू द्य दूषयति-“यदपेि' इति । उक्तत्वाद्'=सांव्यवहारिकप्रमाणभावस्यैव प्रत्यक्षादेरित्यत्राम्रा यस्य प्रावल्यमुक्तमित्यर्थः, । अधस्तादावेदितं=द्वितीयवादे प्रत्य क्षस्य व्यवच्छेदकत्वं निराकुवैतत्यर्थः । किमनवभासनाद्विरोधः किं वा याग्यत्वविशेषितादिति विक ल्प्याद्ये दूषणमाह-“ न्च ” इति, । चक्षुषानवभासनाद्रसा देरप्यभावः स्यादित्यर्थः, द्वितीयं पक्षं दूषयति --* योग्यता च ? इतेि । यत्पुनरुक्त स्वात्मप्रतिभासेप्यानन्दरूपं न प्रकाशत इति त त्राह-* परमानन्दु ' ' इति, ॥ परप्रेमास्यदत्वमेवासिद्धमित्यत आह -- * अस्तिहेि