पृष्ठम्:न्यायमकरन्दः.djvu/१७८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७४ न्यायमकरन्दे म् ०-वर्तिनी प्रतीतिः, कथमेषा प्रेमास्पदतामन्तरेणात्म न्यवकल्प्यते, न चान्तरेण सुखभावं तत्साधनभावं वा प्रेमास्पदता युक्ता नचात्मनश्चन्दनवनितादिवत तत्साधनभावेन प्रे मगोचरता , निरुपाधिकत्वाद् , न खल्वानन्दमपि लौकिकं रूपतेो रोचयते किं न्त्वात्मार्थम्, अन्यथा रूपाभेदेन स्वपरानन्दयोराविशे षाद्, अन्तरेणात्मनः स्वाभाविकप्रेमास्पदतां कथं त दुर्थतयान्यत्सकलमपि प्रेमास्पद्भावमनुभवेत्, । टी०-इति, । भवतु प्रतीतिस्ततः किमित्यत आह-“कथम्' इति,। भवतु प्रेमास्पदता ततः किमित्यत आह-* नचान्तरेरण” इति, । अन्तरणैव सुखरूपतामन्यथैव प्रेमास्पदता किं न स्यादित्यत आह “नचात्मन ” इति । निरुपाधिकत्वादू-आत्मव्यतिरिक्ताशेषत्वे सति प्रियत्वात् । नन्वात्मव्यतिरिक्ताशेषत्वमसिद्धमात्मनः सुखशे षत्वादित्यत आह-“ नखलु ?” इति, । लौकिकस्यानंदम्य स्व रूपत एव प्रियत्वं किं न स्यादित्यत आह -* अन्यथा ' इति, । मवतु सुखस्यात्मार्थतया प्रियत्वं तावता कथमात्मनो नि रुपाधिकप्रेमास्यदत्वमित्यत आह-“ अन्तरेण ?” इति, । यदा सर्वशेषिभूतं सुखमप्यात्मशेषतया प्रियं तदात्मनो निरुपाधिकप्रमा स्पदत्वे किमु वक्तव्यमिति भाव , ।