पृष्ठम्:न्यायमकरन्दः.djvu/१७५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


सिद्धे सङ्गतिप्रहसत्वस्थापनम् । मू०-आत्मा ज्ञातव्य इतेि हि ब्रह्मणि प्रतिपत्तिर्विधात व्या ,तिस्रश्च प्रतिपत्तथो ब्रह्मणि संभवन्ति , प्रथमा शाब्दी द्वितीया च भावनात्मिका, तृतीया च साक्षात्काररूपा, ॥ तत्र न तावच्छाद्यां प्रतिपत्तौ विधिना पुरुषो नियो क्तव्यो, विदितपद्पदार्थस्य समधिगतशाब्दन्यायतत्त्व स्यान्तरेणापि विधिं शब्दादेवोत्पत्तेः, नापि भावनायां तत्राप ज्ञानप्रकर्षहेतुभावस्यान्वयव्यतिरेकसिद्धतया प्रा प्तत्वेनाविधेयत्वात, नापि साक्षात्काररूपायां, स खलु ब्रह्मस्वभावो वा स्यात्तद्गोचरो वान्तःकरणपरिणतेि १७१ टी०--* अात्मा ज्ञातव्य विधि िनराकर्च िवधेयखरूपमाह इति, । ततः िकमित्यत आह--* तिस्रश्च ” इति, । भावनात्मि , भवतु त्रैविध्यं तथापि कथं न विधिरत आह -* तत्र नता वद् ?’ इति, । पदपदार्थज्ञानेपि तात्पर्यार्थनिश्चयाभावे कथं वा क्यार्थप्रतिपत्तिरित्यत आह-* समधि गत ?” इति, ॥ उपक्रमोपसंहारादिषड्विधतात्पर्यद्योतक. शब्दो न्यायस्तत्प रिज्ञानवत इति यावत्, द्वितीयां प्रतिपत्ति दूषयति –“ नापि इति, । अभ्यासोऽभ्यस्यमानवस्तुनि प्रकर्षाधायक इत्यन्वयव्यतिरे कसिद्धत्वाद् न शब्दमपेक्षत इत्यर्थ , । तृतीयप्रतिपत्तौ बिध्यसंभवं वतुं तां विकल्पयति–“ स खलु ?” इति, । कृतिसाध्यत्वेन