पृष्ठम्:न्यायमकरन्दः.djvu/१७४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७० न्यायमकरन्दे मू०-एवं च कार्यपद्व्यतिरिक्तानां काय्यन्धिते सामथ्र्य कार्यपदस्य तु स्वरूपेऽन्यान्विते वेति प्रयोजकद्वैवि ध्याङ्गीकारे गौरवप्रसङ्गादपि योग्येतरान्विते सामथ्र्य मित्येकमेवप्रयोजकमुपादेयं, तथा च लोके भूतार्थपरः पदसमभिव्याहारो लाक्षणिकइति पराकृतं, । दिङ्मात्रमत्र सूचितं विस्तरस्तु न्यायदीपिकायामव गन्तव्यः, ॥ यत्तु वेदान्तानामप्यात्मा ज्ञातव्य इत्यपुनरावृत्तये समाम्रातेन विधिनैकवाक्यभावमाश्रित्य कार्यपरतैव व र्णनीयेति, तदपि न मनोहरम्, । टी०-भवतु तर्हि कार्यपदस्य कार्यमात्रेऽन्यान्विते वा पदसामथ्र्यमि त्यत आह-“ एवं च ” इति,। ननु कार्यपरपदार्थान्वितस्वार्थे पदानां सामथ्र्यमित्येकमेव प्र योजकमित्यत आह--* दिङ्मात्रमत्र' इति, । अत्राप्यन्वितमा ' त्रस्य पदसामथ्र्यप्रयोजकत्वे तदितरग्रन्थकथाया उद्वेगजननमात्र प्रतीतिकरतयोपेक्षणीयत्वात्तू, लक्षणार्थानिरूपणाञ्च, कार्यपरत्वस्य पद्धर्मत्वे सर्वपदानां लिङ्ङादिपद्वत्कार्यपरत्वेन पर्यायत्वापत्तेः, मुख्यगौणसाक्षात्परंपराभेदेन पर्यायत्वपरिहारे चाऽनुगतैकार्थाभा वेन लक्षणस्याव्यापकत्वापत्ते, कार्यपरत्वस्य पदार्थधर्मत्वे च प दार्थानां कार्यप्रतीतिजनकत्वाभावेन लक्षणस्यासंभवित्वातू, नच कार्यशेषत्वेन तत्परत्वं, कार्यस्य कार्यान्तरशेषत्वाभावेन कारकपदानां तदन्वितस्वार्थाभिधायकत्वाभावादिति भाव. ।