सामग्री पर जाएँ

पृष्ठम्:न्यायमकरन्दः.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०-दावभासः, तस्य च मायात्मनोपि विषयसत्यतया प्रमाणभावो विपय्र्यासविरोधिता च युक्ता, स चाविद्याव भासमात्रविरोधितया स्वयमपि प्रलीयते यथा कतकरजो रजोन्तरसंपर्ककलुषिते सलिले प्र क्षिप्तं रजोन्तराणि विलापयत स्वयमपि विलीयमानमना विलं सलिलमापादयति तथा परमात्मतत्त्वसाक्षात्का रोप्यविद्यात्मकोऽविद्यावभासान्तराणि संहरन्स्वयमपि संहियमाणः परिशुद्धमात्मतत्वं व्यवस्थापयतीति न किं एवं च प्रमाणोपपत्त्यनुपपत्योरद्वैतविघात इत्यप्यनवका टी०-तत्त्वसाक्षात्कारस्यापिमायाशरीरत्वाद् रजतादिविभ्रमवत्प्रमा णत्वं विपय्यसविरोधित्वं च न स्यादित्यत आह - * तस्यच इति, विषयसत्यताशब्देनाज्ञातवस्तुविषयत्वं विवक्षितमन्यथा स्मृते रपि प्रामाण्यप्रसंगः, ॥ ननु साक्षात्कारस्यापि निवर्तकान्तरमस्ति चेदनवस्थापातो निव र्तकाभावे तस्यानुवृत्तौ तदुपादानाविद्यानुवृत्तिरपि स्यादित्यत आह --

  • स्च ' इति, । साक्षात्कारस्यापि स्वपरविरोधित्वादुपादानावि

द्यानिवृत्तौ तन्निवृत्तेरयलसिद्धत्वाञ्च न निवर्तकान्तरापेक्षा नापि त दनुवृत्तिरित्यर्थः । भावानां स्वपरविरोधित्वे दृष्टान्तमाह-* यथा ' इतेि, दा ष्ठन्तिकमाह-- * तथा ' इति, । अद्वैते यदि प्रमाणमस्ति तदा प्रमाणं प्रमेयं चेति द्वैतापातो ना तिचेदद्वैतासिद्धिर्मानाभावादित्यत -* एवंच ?” इति, प्र अाद्द