पृष्ठम्:न्यायमकरन्दः.djvu/१५९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रत्यक्षादीनां सांव्यवहारिकप्रामाण्यनिरूपणम् । १५५ मू०-शंचोद्य, सदद्वैताभ्युपगमाद्, अलीकाकारेण च प्र माणादिविभागेन तदविघाताद्, अलीकाकारस्य च तत्त्व गोचरतया प्रमाणभावस्योपपादितत्वात्, प्रमाणोपपत्तौ प्रमेयानुपपत्तिरित्यपि न सुभाषितं

  • तस्मान्मायामयत्वेपि युक्ता ब्रह्मणि मानता

अद्वैतागमवाक्यानामिति तावद् व्यवस्थितम् । सिद्धे तत्वे मानभावो न युक्तो, वेदान्तानां तत्र सङ्गत्ययोगात, तत्संवित्तिवृद्धचैटैकलिङ्गा, काय्यें सा चेत्याह कश्चिद्विपश्चिद् ? इह खलु संगतिसंवेदनापेक्षासकलपदानामभिधेयधी टी०-माणस्यालीकत्वाद्द्वैताविघात इत्यर्थः । अलीकस्य कथं साधकत्वं तत्राह-- * अलीकाकारस्य इति, । प्रमाणे सत्यद्वैतव्याघात इति यदुक्तं तदत्यन्तानुपपन्नमेव, प्रमा णस्य प्रमेयसाधकतया तदविघातकत्वादित्याह -* प्रमाण' इति, उक्तमुपसंहरन्नुतरवादस्य पातनिकामाह-* तस्माद् ' इति, अद्वैतागमवाक्यानां ब्रह्मणि मानतेत्युक्तममृष्यमाणः प्राभाकरः प्राह-* सिद्धे तत्व इति, । सङ्गत्ययोगं दर्शयितुं सङ्गतिग्र होपापमाह-“ तत्संवित्तिर् ?” इति,। सङ्गतिरपि सिद्धे किं न स्यादित्यत आह-* काय्यें ?” इति, वृद्धव्यवहारस्य काय्यैकनि यतत्वातू तत्रैव सङ्गतिरपीत्यर्थः । श्लोकं व्याख्यातुं भूमिकामारचयति-“ इह खलु ?” इति, ॥ .