पृष्ठम्:न्यायमकरन्दः.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यक्षादीनां साँव्यवहारिकप्रामाण्यनिरूपणम । त्यागाद् मू०-नादिविधिना कर्मविधिभिरपि नानुशिष्यन्तें नचैवं परस्परपराहतेिः, कर्मज्ञानभागयोर्विद्याऽवि द्यावत्पुरुषभेदेन व्यवस्थोपतेः । सर्वस्य च मायाशरीरताध्यवसायेपि यावततत्व साक्षात्कारं विपर्यासनिवन्धना व्यवहारानुवृत्तिरपि यु तैव, यथा खलु गुडस्य माधुर्यविनिश्चयेपि पित्तोपह तेन्द्रियाणां तिक्तावभासानुवृत्ति , आस्वाद्य थूत्कृत्य १५३ तत्त्वसाक्षात्कारे तु प्रलीयत एव सकलोप्ययं भे टी०-शत्रु:यैस्ते विजितक्रोधारातयः, क्रोधाभावे हेतु.‘प्रतिषेधशास्रा धैनिश्चयवन्त’ इतेि, उक्तविशेषणाः पुरुषा यथा श्येनेनाभिचरन् यजेते त्यनेन नानुशिष्यन्ते, तथा तत्त्वदर्शिनः कर्मविधिभिरित्यर्थः । एकमेवाधिकारिणं प्रति कर्मविधिभिझनाविधिभिश्च कर्मणो विधानात्प्रतिषेधाश्च परस्परविरोधित्वादप्रामाण्यमिति, तत आह-- नचैवम् ?” इति, नन्वनुमानागमाभ्यां प्रपञ्धस्य मिथ्यात्वनिश्चयाद् देहाद्यभि माननिवंधना प्रवृत्तिरेव न स्यादित्यत आह -“सर्वस्यच' इति,। परोक्षतत्त्वज्ञानेनापरोक्षस्य भ्रमस्याविनिवृत्तेस्तन्निवन्धना प्रवृ तिरुपपद्येतैवेत्यर्थः । तिक्तावभासानुवृत्तिः कथमवगतेति तत्राह-* अास्वाद्य इति, । कथंतर्हि प्रपञ्चविभ्रमनिवृत्तिारोति तत्राह-“तत्व' इति, २०