पृष्ठम्:न्यायमकरन्दः.djvu/१३४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१३० न्यायमकरन्दे मृ०-प्रसिद्धिश्च प्रपञ्चगोचरा प्राणभृन्मात्रवर्तिनीति कथं नायमाश्रय , तथाचायमाश्रयहाना दृष्टान्त इत्यपोढं , यदपि–' आत्मनाऽनैकान्तेो हेतुः’ इति, तदप्य प्रेक्षावत्पुरुषभाषितम्, अपराधीनप्रकाशत्वादात्मनः, न् चैतन्मनोरथमात्रम्, अनुमानागमाभ्यां तदुपपत्तेः, । तथाहि-अस्ति तावन्मन्दतुठूलं प्रतिकूलमिति वा विज्ञायानुकूले प्रवर्तते प्रतिकूलाच निवर्तत इति लौ किकपरीक्षकाणां संप्रतिपत्तिः, तच्चास्य विज्ञानमवच्छे दकात्मप्रकाशाधीनमवच्छिन्नप्रकाशत्वाद् य उत्तरसा धनः स उक्तसाध्यो यथा । दण्डप्रकाशाधीनो दण्ड प्रकाशः, ॥ स चायमात्मप्रकाशः पराधीनतया न निरूपणगो टी०-प्रसिद्धिरपि किमस्तीति, वाढमित्याह -- * प्रसिद्धिश्च * इति, । आश्रयवत्प्रतीतिसिद्धिमात्रेण दृष्टान्तोपपत्तेरुक्तदोषानव काश इत्याह-' तथाचव इति, ॥ परिशेषानुमानं दिदर्शयिषुस्तस्याश्रयासिद्धता मा भूदित्याश्रयं तावदाह तथाहि ?” इति, । आत्मनावच्छिन्नानुकूलप्रतिकूलानुभवोऽनुभवसिद्ध इत्यर्थः । अनुमानमाह-- * तञ्च ?' इति । प्रमाणान्तरेणावच्छेदकात्मसिद्धौ कथं परिशेषसिद्धिरित्यत सन्चव ' इति, ।