पृष्ठम्:न्यायमकरन्दः.djvu/१३३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रपञ्चमिथ्यात्वानुमानै वाधकविधूननम् । मू०-तदेतन्निखिलमपि गगनग्रासकल्पं, तथाहि-यत्ता वद्-धर्मिग्राहकप्रमाणापवाधितविषयं साधनम्’ इति तदतिमन्दं, भेद्प्रपञ्चस्य प्रत्यक्षादिगोचरतायाःप्राक् परास्तत्वाद्, । यतु—इदमाश्रयासिद्धं साधनमिति, तदप्यनाक लिताश्रयवृत्तान्तस्य भाषितं, । न खलु नभस्तलकमलायमानं प्रपञ्चमाचक्ष्महे ये नायमाश्रयो न स्याद्, नचान्तरेण प्रामाणिकभावमाश्रयतानपपत्तिरित्यपि कुलधर्मः, प्रसिद्धिमात्रेण तदुपपत्तेः विशेषणवैकल्यात, १२९. टी०-अप्रामाणिकत्वैपि तुच्छविलक्षणत्वादाश्रयोपपतिरिति परिह रति-* नखलु ?” इति, ॥ अप्रामाणिकत्वे शुक्तिरजतसंसर्गवदाश्रयत्वमैव न स्यादित्यंत आ-- *** नन्चान्तरेण ?” इति, प्रसिद्धत्वे सति प्रमाणसिद्ध त्वाभावेनाश्रयत्वाभावानुपलम्भात्प्रमाणप्रतिपन्नविशेषणवैयथ्याद् विभ्रमावभातसंसर्गे मिथ्यात्ववाध्यत्वापरोक्षत्वधर्माणां परीक्षकैर

  • युपगमेन प्रामाणिकत्वायोगादू ।

ननु प्रतीतिमात्रसिद्धाश्रयादिपरिग्रहेणानुमानप्रवृत्तौ प्रतिवा दिवचनमात्रेणानैकान्तिकत्वादिदोषोदूभावनेऽनुमानभङ्गः स्यादू, अ नैकान्तिकत्वादेस्तत्रापि प्रतीतिमात्रसिद्धत्वादिति चेचद्, न, साध्य सिद्धय आभासलक्षणानाक्रान्तस्य त्रिचतुरकक्षाविश्रान्तहेतुभाव त्वस्यास्सर्वज्ञेन ज्ञातुमशक्यत्वात्कथाऽप्रवृत्तिरेव स्यादित्यर्थः ।