पृष्ठम्:न्यायमकरन्दः.djvu/१३०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्द मू०-अपरे तु प्रतिपन्नौपाधौ प्रतिषेधमेव वार्ध तद्गो चरभावं च वाधकप्रत्ययप्रवेदनीयमनिर्वांच्यलक्षणमा चक्षते, नचैवमपि व्यभिचारः, सतश्चिदात्मनःप्रतिप न्नेोपाधौ प्रतिषेधानुप्लम्भाद्, अत्यन्तासतश्च शशशु ङ्गादेरप्राप्त्यैव तद्नुपपत्तेः; नचास्ति सदसद्रूपं वस्तु यत्र व्यभिचारः शङ्कयेत; । यदि कश्चित पूर्वोत्तरानुभवावण्टम्भेन रजतादेरेव भ्रान्तिवाधाविति चिन्त्यम्; । कथ टी०-समानभिन्नविषयज्ञानयोर्विरोधस्योदितदूषणेनानिर्वाच्यत्वादू, नच विरुद्धार्थविषयज्ञानयोर्विरोधः, अर्थयोरपि विरोधस्यानिर्वच नातू, सहानवस्थानमिति तस्य निर्वर्चनमिति चेत् तदेव-भवभि रभिधीयतां, यत्र यदा यस्य भावोऽस्ति तत्र तदा तदभावों नास्तीति निर्वचनमिति चेन्न, तत्र तदाऽभावबोनास्तीत्यभाववचनेन भावावेि धानाद्यत्र भावोऽस्ति तत्र भावोऽस्तीति. पौनरुक्तयापत्तेः, यत्राभा ोस्ति तत्र भाको नास्तीत्यत्रापि चैतद् दोषस्य तुल्यत्वातू-खा त्यन्ताभावसमानाधिकरणेषु सुखादिषु लक्षणस्याव्याशेः, नच प्रदे शभेदेन सहानवस्थानं, निरवयत्वेनात्मनो निःप्रदेशत्वादिति भावः । विवरणाचाय्र्यमतमाह- “ अपरे तु 'इति, । अस्तु त हिँ सदसद्रूपे व्यभिचार इत्यनैकान्तवादिमतमुत्थाप्य दूषयतिः

  • यदिकश्चिद् ' इति, ।