पृष्ठम्:न्यायमकरन्दः.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनिर्वचनीयताख्यातिस्थापनम् । १२१५ मू०-नचैवमतिव्याप्तिः निर्वाच्यस्यात्मादेरवाधाद्, नाप्य व्याप्तिरनिर्वाच्यरज्जुभुजङ्गादेर्वाध्यत्वनियमात, । कः पुनरयं वाधो नाम, नासौ भेदाग्रहप्रसञ्चित व्यवहारनिवारणमेिति प्रपञ्चितं, नापि विज्ञानविषया पहारः, तस्य समानगोचरभिन्नगोचराभ्यामसम्भवाद् न हेि तावत्समानगाचरानुभवान्तरणानुभवान्तर विषयापहारसम्भवः, धारावाहिकेपि तत्प्रसङ्गाद्, नापि विभिन्नगोचरेण, स्तम्भानुभवेनापि कुम्भानुभवगोचरा पहारप्रसङ्गाद्, सति विरोध इतिविशेषणाद्दोष इ तिचेद् नैवं स्वगोचरशूराणां बोधानां विरोधाभावस्या भिहितत्वाद्, विज्ञानविषयापहारे च निरालंबनतापत्तेः तस्मात्सविलासाविद्यानिवृत्तिरेव वाध इत्याचाय्य तथा च तद्गोचरतैवाऽनिर्वाच्यतेति सर्वमवदातम्, टी०-इति, । धर्मिग्राहकप्रमाणादेव रजताद्युपादानत्वे सिद्धे न तत्र प्रमाणान्तरमन्वेषणीयमित्यर्थः । ननु परीक्षका यथायथं वाधगोचरतामनुमन्यमाना वस्तूनाम निर्वाच्यतां नानुमन्यन्त इत्याशङ्क पराभिमतवाध्यतनिराकरणेना निर्वाच्यतां सिसाधयिषुराकाङ्कमुत्थापय ति-“कःपुनर्' इति, विकल्पपूर्वकमसम्भवं दर्शयति-“ नहि इति, * विरो धाभावस्याभिहितत्वातू='को विरोधेो वित्ती चेदुभयमावेदय