पृष्ठम्:न्यायमकरन्दः.djvu/१३१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


अनिर्वचनीयताख्यातिसमर्थनम् । १२७ मू०--संदसदरूपस्य सदरूपेण प्रतीतिभ्रन्तिरिति चेत तत्किमिदानीमसाकल्योपलब्धिरेव भ्रान्तिः, तथा सति सर्वोपलम्भानां विभ्रमता दुर्वारा, नो खल्विह केन चिदप्युपलम्भन सर्वात्मनाऽर्थोवसीयते,--यथोक्त ‘सर्वात्मनार्थो ज्ञानेन केन चिन्नहि नृह्यत”इति, ।। न च न स्त एव भ्रान्तिवाधाविति वाच्यं, तत्प्र सिद्धिविरोधात, सा भ्रान्तिरिति चेत्, तद्वाधेो वाच्यः, तथाचायुष्मतैव भ्रान्तिवाधावाश्रितावितेि किमलीक निर्बन्धेन, । तस्मान्नसन्नासन्नापिसदसदपित्वनाद्यनिर्वाच्याविद्या टी०-भ्रान्तिसम्भवमाशङ्कते - * सदसद्रूपस्य इति । गृढाभिसन्धिरुत्तरमाह-* तत्किमिदानीम् ?” इति, अस्तु को विरोध इति तत्राह-“ तथा सति ” इति, कुत इत्यत । आह–“ नो खलु ?’ इति , । दुर्निरूपत्वादसम्भव एव तयोरित्याशङ्काह–“न च नस्त' इति, वाधकव्यतिरेकेण भ्रान्तेरभावाद् भ्रान्तेर्वाधोपि वक्तव्य । इति तन्निराकरणवादिना स्वीकृतावैतावित्याह-* तद्वाध इति । वादार्थमुपसंहरति-“ तस्माद् ” इति, िवभ्रमालम्बनस्या निच्यतामाह- “अनाद्यनिर्वाच्याऽऽविद्या' इति, ‘अलीक’