पृष्ठम्:न्यायमकरन्दः.djvu/१०२

From विकिस्रोतः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


९८ मू०-दिदंकारास्पदस्य संविदेव रजताकारा जायत इति बूयाद् अहो वतायं महातमाह्वसागर निमग्नो यदुत्तरान्वे षणकातरतया महायानिकपक्षानुप्रवेशदोषमप्यात्मनो न चवतयत,- न्यायमकरन्दे यदपि-इदमनुमानम्--'विवादपदं रजताकारेणा वभासते तदर्थिनो नियमेन प्रवृत्तिविषयत्वाद् यदित्थं तत्तथा यथोभयवाद्यविवादपदं रजतम्” इति, तदपि इदंकारास्पद्स्यानिर्वाच्यरजततावभासगोचरभावाभ्युपग मात सिद्धसाधनम् । अविद्यमानरजतात्मना त्ववभासगोचरताप्रसाधने साध्यविकलता दृष्टान्तस्य । वाधाद्यस्समनन्तर संजायमानम् “एतावन्तं काल मिदै रजतमित्यभाद्' इति प्रत्यभिज्ञानमस्मन्मतेपि ना टी०-**संविदेव रजताकारा' इति । रजताकारासंविदिति किं रजतविषयिणा-किं वा रजताकारैरव, नाद्यः, रजतस्यासंप्रयुक्तत्वा त्वाश्चापरोक्षत्वानुपपत्तिरित्युक्तदोषाद् । द्वितीये दोषमाह-“अहोवत” इति, । ज्ञानस्य साकारता भूयुपगमात्सुगतमतप्रवेश इत्यर्थ किं रजतात्मना प्रतिभास: साध्यते किं वा विद्यमानरज तात्मना, आद्ये दोषमाह --*तदपि ?” इति, ।