पृष्ठम्:न्यायमकरन्दः.djvu/१००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


न्यायमकरन्दे मू०-यथा च नेदं रजतमित्यस्यैव वाधकताभ्युपगमेपि न रजतस्यात्यन्तिकमसत्त्वं तथा वयं वक्ष्यामः । ‘यद्धि यथा प्रतिभासत’ इत्याद्यविरुद्धमेवास्माकम् , ‘स चेदिदंकारास्पदतादात्म्यनिषेधात्मोपपन्न, इत्याद्ययु क्तमेव, तादात्म्यमात्रनिषेधपरिशेषप्रसिद्धोः प्रागेव प्रति विद्वत्वाद्, । यत्पुनर् (असंप्रयोगेपि रजतस्य शुक्तिशकलस्यैवा नाकलितनिजाकारस्य नेत्रदेोषवशादेव रजताकारेणाप रोक्ष्यप्रतिभासगोचरताऽभ्युपेयत) इति, तद् अवभासा नुसारेण रजताकारानाश्रयणे तदात्मना शुत्तेरप्यपरोक्ष प्रतिभासगोचरभावानुपपत्तेरयुक्तम् । न खलु स्वरूपस्सतः स्तप्रयुक्तस्याप्यसप्रयुक्तासदाकार टी०-तर्हि रजतस्य निषेधादात्यन्तिकमवासत्त्वमित्यसत्तूख्याति प्रसङ्ग इत्यत आह “यथाचव' इति । रजतस्यानिर्चचनीयताऽभ्यु पगमादसत्वं न प्रसज्यत इति वक्ष्याम इतिभाव, ॥ सामान्यन्यायः पुनरस्माकमनुकूल एवेत्याह 'यांडि’ इति,) अवभासानुसारेण रजताकारानाश्रयणे परोक्षरजतात्मनैव शुक्तरवभासे तस्याः परोक्षतया प्रतिभासप्रसङ्गात्तदयुक्तमित्यन्वयः । ननु शुक्तिशकलस्य संप्रयुक्तत्वात्सत्त्वाच्च नासत्तूख्यातिर्नाप्य सप्रयुक्तार्थावभासतया पारोक्ष्यमित्याशङ्कयाह “नखलु' इति, ।