इत्येतत्प्रतिपत्त्यर्थमाह ।
अविक्रियस्य भोतृवं स्यादहंबुद्धिविभ्रमात् ।
नौयानविभ्रमाद्यन्नगेषु गतिकल्पनम् ॥ ६३ ॥
यथोक्तार्थाविष्करणाय दृष्टान्तानरोपादानम् ।
यथा जायमणेः शुभ्रा ज्वलन्ती निश्चला शिखा ।
सन्निध्यसन्निधानेषु घटादीनामविक्रिया ॥ ६४ ॥
अयमत्रांशो विवक्षित इति ज्ञापनायाह ।
यदवस्था व्यनक्तीति तदवयैव सा पुनः ।
भण्यते न व्यनक्तीति घटादीनामसन्निधौ ॥ ६५ ॥
एतावता किमुक्तं भवतीत्यत आह इत्येतदिति । अहंबुद्धिरहंप्रत्ययस्तन्निमित्तो विभ्रमोऽहंबुद्धिविभ्रमस्तस्मात्सुखदुःखादिपरिणामित्वेन भोक्रन्तःकरणेनाभेदाध्यासादहं भोक्तति विभ्रमो भवेत् । यथा नैौयाननिमित्तो विभ्रमो नौयानविभ्रमस्तस्मात्तीरस्थेषु नगेषु गमनरहितेषु गच्छन्ति वृक्षा इत्यध्यवसायस्तद्वदित्यर्थः ॥ ६३ ॥
कूटस्थरूपेणैव परमात्माहङ्कारादिद्वैतप्रपञ्चमवभासयति न धिकारमापद्यत इत्यत्र विभ्रमदृष्टान्तव्यतिरेकेण वास्तवदृष्टान्तोऽप्यस्तीत्याह यथोक्तार्थेति । जातौ भवो जाल्यस्तस्य मणेः शिखा प्रकाश्यधटादिसन्निधाचसन्निधावप्यविक्रिया विकारशून्या तद्धदात्मापीत्यर्थः ॥ ६४ ॥ र्शयति अयमत्रेति । अयमत्र दृष्टान्ते दाष्टन्तिकोपयोगी विवक्षितोंऽश इति प्रतिज्ञापनायेत्यर्थः । यदवस्थेति । यदवस्थावती शिखा व्यनक्तीति भण्यते तदवस्थावत्येव न व्यनक्तीत्यपि भण्यते घटाद्यसन्निधानात्ततश्च प्रकाश्यसन्निध्यसन्निधिभ्यां व्यनक्ति न व्यनक्तीति व्यपदेशो न तु विकारतदभावाभ्याम् । तस्मात्स्वरूपेणाविक्रियत्वं सिद्धमित्यर्थः ।॥ ६५ ॥