पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


तिीयोऽध्यायः । सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः । सन्निध्यसन्निधानेषु धीवृतीनामविक्रियः ॥ ६६ ॥ न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते । उपचाराक्रिया सास्य यः प्रकाश्यस्य सन्निधिः ॥६७॥ मवं शंकिष्ठाः सांख्यराङ्कानतोऽयमिति । यतः । यया विशुद्ध आकाशे सहसैवाभ्रमण्डलम् । भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६ ॥ तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः । दृष्टान्तगतमर्थ दाष्टन्तिके समर्पयति तत्र चेति । परमात्मा प्रकाशो ऽपि तद्वद्धीवृत्तीनां सन्निध्यसन्निधाने निविकार एव सर्वधीव्यञ्जको न व्यङ्गय इति चोच्यत इत्यर्थः ॥ ६६ ॥ एतदेव प्रपञ्चयति न प्रकाशेति । ननु प्रकाशक्रियाभावे धीवृत्तीः प्र काशयतीति कर्तृत्वव्यपदेशो न स्यादित्याशङ्कय जन्यक्रियाभावेऽप्या दित्यादीनामिव प्रकाश्यसन्निध्युपाधिकः प्रकाशयतीति कर्तृत्वव्यपदेश उपचाराद्रवतीत्याह उपचारादिति ॥ ६७ ॥ नन्वनात्मैव संसरति नात्मा । आत्मा तु कूटस्थविशानधातुः समस्त बुद्धिवृत्तिसाक्षी सकलसंसारधर्मातीत इति सांख्यसिद्धान्तोऽयं भ वता सिद्धान्तत्वेन स्वीकृत इत्याशङ्कय ततो वैषम्यं दर्शयितुमाह मैव मिति । यथा विशुद्ध इति । अस्य द्वैतेन्द्रजालस्यात्माशाननिवृत्तत्वादा त्ममात्रं जगदिति वेदान्तसिद्धान्तः । न चैवमभ्युपगम्यते सांख्यैरन्यदेव किंचिद्चेतनं त्रिगुणं प्रधानं तदेव जगतः कारणं तञ्च स्वतन्त्रं प्रपञ्चश्च पारमार्थिक इति सांख्याभ्युपगमात्ततो महदस्ति वैषम्यमित्यर्थः ॥६८॥ भूत्वा विलीयत इत्युक्तत्वात्प्राग्विलयादात्मसंस्पशोंऽभ्युपगम्यत इति शङ्कां परिहर्तमाह तस्मादेष इति । कुतो न स्पृशतीत्याशङ्कय श्लोकेन हे