पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/८५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


द्वितीयोऽध्यायः । अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपग मेऽनभ्युपगमेऽपि दोष एव यस्मादाह । वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् । चर्मोपमयेत्सोऽनित्यः खतुल्यथेदसत्समः ॥ ६० ॥ बुद्विजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१ ॥ अस्य परिहारः । उऊध्र्व गच्छति धूमे खं भिद्यते स्विन्न भिद्यते । न भिद्यते चेत्स्यास्त्रुत्वं भिद्यते चेद्भिदास्य का ॥६२॥ प्राश्विकं गुणदोषसाक्षिणं मध्यस्थमुद्दिश्य सर्वे वादिनोऽमुकत्वाद्मुक त्वादिति हेतुजालैरितरेतरं मोहयन्ति तस्मात्तस्मिन्प्राश्केि नाविश्वास इत्यर्थः ॥ ५९ ॥ अनुभवरूपेऽप्यात्मनि विवादं दर्शयञ्शङ्कतेऽत्रापीति । विकारहेतौ सत्यपि विकार्यस्यैव चवर्मणो विकारो दृश्यते न त्वविकार्यस्य व्योस्रस्तथा च सति भवदभिमत आत्मापि चर्मवद्धिकाय नभोवघदविकाय वोभ-. यथापि दोष एवेत्याह वर्षातपाभ्यामिति । असत्समः । अप्रमातृत्वप्र सङ्ग इत्यर्थः ॥ ६० ॥ एतदेव स्पष्टयति बुद्धिजन्मनीति । घटादिविषयज्ञानोत्पत्तौ यद्यात्मा विक्रियते तह्यनित्यत्वं स्यान्न विक्रियते चेत्प्रमातृत्वाभाव इत्यर्थः ॥६१॥ प्रतिबन्दीन्यायेनाक्षेपं परिहरति अस्य परिहार इति । धूम ऊध्र्व ग च्छति सति खमाकाशमवकाशदानाय भिद्यते विदीर्ण भवति वा न वा । न भवति चेच्दूमस्य स्थाख्खुत्वं नोध्र्वगतिः स्याद्भवति चेत्कास्य भिदा न काचिद्विभागलक्षणा क्रिया समवायित्वाभावात् । ततश्च भे दादिविकारमन्तरेणैवाकाशमवकाशस्वरूपेणैव दृश्यत इत्यर्थः ॥ ६२ ॥